________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............................. मूलं [१८]/गाथा ||१८|| ......... पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[१८]
दीप
दिच व्युत्पत्ती खतत्रमेव ज्ञानमभिधेयं, यदा पुनस्तद्वानभिधेयो विवक्ष्यते तदेवं व्युत्पतिः-ऋज्वी-सामान्यग्राहिणी मतिरस्य स ऋजुमतिः, तथा विपुला-विशेषग्राहिणी मतिरस्य स विपुलमतिः। तत् मनःपर्यायज्ञानं द्विविधमपि
| योयम् समासतः' संक्षेपेण चतुर्विधं प्रज्ञतं, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतच, तत्र द्रव्यतो णमिति वाक्या-13 दिलङ्कारे ऋजुमतिरनन्तान् अनन्तप्रदेशिकान्-अनन्तपरमाण्वात्मकान् स्कन्धान्-विशिष्टैकपरिणामपरिणतान् अर्द्धदातृतीयद्वीपसमुद्रान्तर्वर्तिपर्याप्तसंज्ञिपञ्चेन्द्रियैर्मनस्त्वेन परिणामितान् पुद्गलान् पुद्गलसमूहानित्यर्थः जानाति-सासाक्षात्कारेणावगच्छति 'पासईत्ति, इह मनस्त्वपरिणतः स्कन्धेरालोचितं बाह्यमर्थं घटादिलक्षणं साक्षादध्य
क्षतो मनःपर्यायज्ञानी न जानाति, किन्तु मनोद्रव्याणामेव तथारूपपरिणामान्यथानुपपत्तितोऽनुमानतः, आह दूचि भाष्यकृत्-"जाणइ बज्झेऽणुमाणेणं" इत्थं चैतदङ्गीकर्तव्यम् , यतो मूर्त्तद्रव्यालम्बनमेवेदं मनःपर्याय
ज्ञानमिष्यते, मन्तारस्त्वमूर्तमपि धर्मास्तिकायादिकं मन्यन्ते, ततोऽनुमानत एव चिन्तितमर्थमवबुध्यन्ते नान्यथेति प्रतिपत्तव्यम् , ततस्तमधिकृत्य पश्यतीत्युच्यते, तत्र मनोनिमित्तस्याचक्षुर्दर्शनस्य सम्भवात् , आह च चूर्णिणकृत्"मुणियत्थं पुण पचक्खओ न पेक्खइ, जेण मणोदवालवणं मुत्तममुत्तं वा, सो य छउमत्थो तं अणुमाणओ पेक्खइ, अतो पासणिया भणिया" इति । अथवा सामान्यत एकरूपेऽपि ज्ञाने क्षयोपशमस्य तत्तद्रव्याद्यपेक्ष्य वैचित्र्यसम्भवा१ जानाति बाह्यानू भनुमानेन. २ चिन्तितार्थ पुनः प्रत्यक्षतो न प्रेक्षते, येन मनोदव्यालम्बनं मूर्तममूर्त बा, स च छद्मस्थस्तत् अनुमानतः प्रेक्षते, अतः पश्यत्ता भणिता ।
अनुक्रम [८२-८४]
HRIRainrary.org
~228~