SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) ............. मूलं [१७]/गाथा ||५७...|| .......... ....................... पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति: आमाँपध्यादि प्रत सत्राक [१७]] ५ - CCCCCCCC दीप अनुक्रम ते सम्यगमिथ्यादृष्टयः, उक्तं च शतकवृहचूण्णों-जहाँ नालिकेरदीववासिस्स खुहाइयस्सवि एत्थ समागयस्स ओ- शायणाइए अणेगविहे ढोइए तस्स उवरिं न रुई न य निंदा, जओ तेण सो ओयणाइओ आहारो न कयाइ दिट्ठो नावि सुओ, एवं सम्ममिच्छहिहिस्सवि जीवाइपयत्थाणं उवरि न य रुई नाबि निंद'त्ति, तथा 'संजय'त्ति 'यम उपरमे' संयच्छन्ति स्म सर्वसावद्ययोगेभ्यस्सम्यगुपरमन्ते स्मेति संयताः, “गत्यर्थकर्मण्याधारे"ति कर्तरि क्तप्रत्ययः, संयता:सकलचारित्रिणः असंयता:-अविरतसम्यग्ररष्टयः संयतासंयता:-देशविरतिमन्तः, तथा 'पमत्त'त्ति प्रमाद्यन्ति स्म मो. हनीयादिकम्मोदयप्रभावतः सज्वलनकषायनिद्राद्यन्यतमप्रमादयोगतः संयमयोगेषु सीदन्ति स्मेति प्रमत्ताः, पूर्वबत् कत्तेरि तप्रत्ययः, ते च प्रायो गच्छवासिनः, तेषां कचिदनुपयोगसम्भवात्, तद्विपरीता अप्रमत्ताः, ते च प्रायो जिनकल्पिकपरिहारविशुद्धिकयथालन्दकल्पिकप्रतिमाप्रतिपन्नाः, तेषां सततोपयोगसम्भवाद्, इह तु ये गच्छवासिनः तन्निगता वा प्रमादरहिताः तेप्रमत्ता द्रष्टव्याः, तथा 'इहिपत्तस्से'त्यादि, ऋद्धी:-आमर्पोषध्यादिलक्षणाः प्राप्ता ऋद्धिप्राप्ताः तद्दिपरीता अनृद्धिप्राप्ताः, ऋद्धीश्च प्राप्नुवन्ति विशिष्टमुत्तरोत्तरमपूर्वापूर्वार्थप्रतिपादकं श्रुतमवगाहमानाः श्रुतसामथ्येतस्तीनां तीव्रतरां शुभभावनामधिरोहन्तोऽप्रमत्तयतयः, तथा चोक्तम्-'अवगाहते च स श्रुतजलधि प्राप्नोति चावधिज्ञानम् । मानसपर्यायं वा ज्ञान कोष्ठादिबुद्धिर्वा ॥१॥चारणवैक्रियसौषधताद्या वा लब्धयस्तस्य । १ यथा नालि केरद्वीपवासिनः क्षुधादितस्यापीहागतस्यौदनादिकेऽनेकविध बाकिते तस्योपरि न रुचिः नापि निन्दा, यतस्तेन स ओदनादिक भाद्दारो न कदाचित दृष्टो नापि श्रुतः, एवं सम्यग्मिभ्याटेरपि जीवादिपदार्थानामुपरि न च रुचिर्नापि निन्देति । [८१] M msuniorary.org ~222~
SR No.035038
Book TitleSavruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages528
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy