SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [१७] दीप अनुक्रम [८१] [भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:) मूलं [१७]/गाथा ||५७...|| पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः श्रीमलयगिरीया नन्दीवृत्तिः ॥१०६॥ प्रादुर्भवन्ति गुणतो बलानि वा मानसादीनि ॥ २ ॥" अत्र स इति अप्रमत्तयतिः 'मानसपर्याय' मिति मानसाःमनःसम्बन्धिनः पर्याया विषयो यस्य तन्मानसपर्यायं, मनःपर्यायज्ञानमित्यर्थः, 'कोष्ठादिबुद्धिवेंति अत्रादिशब्दात्पदानुसारिवीजबुद्धिपरिग्रहः, तिस्रो हि बुद्धयः परमातिशयरूपाः प्रवचने प्रतिपाद्यन्ते, तद्यथा - कोष्ठबुद्धिः पदानुसारिणीबुद्धिः बीजबुद्धिव, तत्र कोष्ठ इव धान्यं या बुद्धिराचार्यमुखाद्विनिर्गतौ तदवस्थावेव सूत्रार्थों धारयति, व किमपि तयोः सूत्रार्थयोः कालान्तरेऽपि गलति सा कोष्ठबुद्धिः, या पुनरेकमपि सूत्रपदमवधार्य शेषमश्रुतमपि तदवस्थमेव श्रुतमवगाहते सा पदानुसारिणी, या पुनरेकमर्थपदं तथाविधमनुसृत्य शेषमश्रुतमपि यथावस्थितं प्रभूतमर्थमवगाहते सा बीजबुद्धिः, सा च सर्वोत्तमा प्रकर्षप्राप्ता भगवतां गणभृतां, ते हि उत्पादादिपदत्रयमवधार्य सकलमपि द्वादशाङ्गात्मकं प्रवचनमभिसूत्रयन्ति तथा चारणाश्च वैक्रियं च सर्वोषधश्च चारणवैक्रिय सर्वोषधाः तद्भावः चारणवैक्रियसर्वोषधता, तत्र चरणं गमनं तद्विद्यते येषां ते चारणा 'ज्योत्स्नादिभ्योऽणू' इति मत्वर्थीयोऽण्प्रत्ययः, तत्र गमनमन्येषामपि मुनीनां विद्यते ततो विशेषणान्यथानुपपत्त्या चरणमिह विशिष्टं गमनमभिगृह्यते, अत एवातिशायने मत्वर्थीयो, यथा रूपवती कन्येत्यत्र ततोऽयमर्थः - अतिशयचरणसमर्थाश्वारणाः, तथा चाह | भाष्यकृत् स्वभाष्यटीकायां अतिशय चरणाचारणाः, अतिशयगमनादित्यर्थः, ते च द्विधा - जहाचारणा विद्याचारणाश्च तत्र ये चारित्रतपोविशेषप्रभावतः समुद्भूतगमनविषयलब्धिविशेषास्ते जङ्घाचारणाः, ये पुनर्विद्यावशतः For Plata Lise Only ~ 223~ आमष वध्यादि १५ २० ॥१०६ ॥ २५ Andro
SR No.035038
Book TitleSavruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages528
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy