SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [१०] दीप अनुक्रम [६२] [भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:) मूलं [१०]/गाथा ||४७...|| पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः | रामभावेऽप्यौदारिकशरीरमध्यभागेनोपलब्धिस्तन्मध्ये गतं मध्यगतं, उक्तं चूर्णो "ओरालियसरीरमज्झे फडनविसुद्धीओ | सायप्पएसविसुद्धीओ वा सवदिसोवलम्भत्तणओ मज्झगउत्ति भन्नति" अथवा तेनावधिज्ञानेन यदुद्योदितं क्षेत्रं सर्वासु दिक्षु तस्य मध्ये-मध्यभागे गतं स्थितं मध्यगतम्, अवधिज्ञानिनः तदुद्योतितक्षेत्रमध्यवर्त्तित्वात् आह च चूणिकृत् - " अहंवा उवलद्धिखेत्तस्स अवहिपुरिसो मज्झगउत्ति, अतो वा मज्झगओ ओही भन्नइ" इति, चशब्दः स्वगतानेकभेदसूचकः - अथ किं तदन्तगतं ?, अन्तगतं 'त्रिविधं' त्रिप्रकारं प्रज्ञप्तम्, तद्यथातत्र 'पुरतः ' अवधिज्ञानिनः स्वव्यपेक्षया अग्रभागेऽन्तगतं पुरतोऽन्तगतं, तथा मार्गतः - पृष्ठतः अन्तगतं मार्गतोऽन्तगतं, तथा पार्श्वतो- द्वयोः पार्श्वयोरेकतरपार्श्वतो वाऽन्तगतं पार्श्वतोऽन्तगतं । अथ किं तत्पुरतोऽन्तगतं ?, 'से जड़ा' इत्यादि, 'स' विवक्षितो यथानामकः कश्चित्पुरुषः, अत्र सर्वेष्वपि पदेष्वेकारान्तत्यम् 'अतः सौ पुंसी 'ति मागधिकभाषालक्षणात् सर्वमपि हि प्रबचनमर्द्धमागधिकभाषात्मकम्, अर्द्धमागधिकभापया तीर्थकृतां देशनाप्रवृत्तेः, ततः प्रायः सर्वत्रापि मागधिकभाषालक्षणमनुसरणीयं । 'उक्का चेति' उल्का-दीपिका, वाशब्दः सर्वोऽपि विकल्पार्थः, 'चटुली या' चटुली :- पर्यन्तज्वलित तृणपूलिका 'अलातं वा' अलातमुल्मुकं अग्रभागे ज्वलत्काष्ठमित्यर्थः, 'मणि' मध्यत इति १ औदा रिकशरीरमध्ये सर्वकविशुद्धेः सर्वात्मप्रदेश विशुद्धितो वा सर्वदिशोपलम्भात् मध्यगतमिति भव्यते । २ अथोपलचक्षेत्रस्यावधि अतो वा मध्यगतमवधिर्भयते । For Parts Only ~178~ पुरतोऽतगतादयोsaधयः १० १३
SR No.035038
Book TitleSavruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages528
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy