________________
आगम
(४४)
प्रत
सूत्रांक
[C]
दीप
अनुक्रम
[६]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [८]/गाथा ||४७...||
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४४ ] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
दाचित् विशिष्टगुणप्रतिपत्तिमन्तरेण कदाचित् पुनर्विशिष्टगुणप्रतिपत्या विशिष्टगुणप्रतिपत्तिमन्तरेण कथमिति चेद, उच्यते, इह यथा दिवाकरमण्डलस घनपटलाच्छादितस्य कथञ्चिद्विससापरिणामेन घनपटलपुद्गलानां निःस्नेहीभूय परिक्षयतः समुपजातेन रन्त्रेण तिमिरनिकरोपसंहारहेतवो मानवः स्वावपातदेशास्पदं द्रव्यमुद्योतयन्ति तथा प्रकृतिभासुरस्य आत्मनो मिथ्यात्वादिहेतू पचयोपजनितावधिज्ञानावरणपटल तिरस्कृत स्वरूपस्य संसारे परिभ्रमतः कथञ्चिदेवमेव तथाविधशुभाध्यवसायप्रवृत्तितोऽवधिज्ञानावरणसम्बन्धिनां सर्वघातिरसस्पर्द्धकानां देशघातिरसस्पर्द्धकतया जातानामुदयावलिकाप्राप्तस्यांशस्य परिक्षयतोऽनुदयावलिकाप्राप्तस्योपशमतः समुद्धतेन क्षयोपशमरूपेण रन्त्रेण विनिर्गतोऽवधिज्ञानालोकः प्रसाधयति स्वकार्य, कदाचित् पुनर्विशिष्टगुणप्रतिपत्तितः सर्वघातीनि रसस्पर्द्धकानि देशघातीनि भवन्ति, तथा चोक्तम्
अहवा गुणपडिवन्नस्स अणगारस्स ओहिनाणं समुप्पज्जइ, तं समासओ छविहं पन्नत्तं, तंजहाआणुगामिअं १ अणाणुगामिअं २ वडमाणयं ३ हीयमाणयं ४ पडिवाइयं ५ अप्पडिवाइयं ६ (सू. ९)
'अथवे 'ति प्रकारान्तरोपदर्शने, प्रकारान्तरता च गुणप्रतिपत्तिमन्तरेणेत्यपेक्ष्य द्रष्टव्या गुणाः-मूलोत्तररूपाः तान् प्रतिपन्नो गुणप्रतिपन्नः, अथवा गुणैः प्रतिपन्नः पात्रमिति कृत्वा गुणैराश्रितो गुणप्रतिपन्नः, अनेन पात्रतायां सत्यां स्वयमेव गुणा भवन्तीति प्रतिपादयति, उक्तं च- “नोदम्यानर्थितामेति न चाम्भोभिर्न पूर्वते । आत्मा तु पात्रतां
Education International
अवधिज्ञानस्य आनुगामिकं आदि षड्भेदस्य कथनं
For Pasta Lise Only
~ 172~
आनुगासुकादादिमेदपम्. सू. ९
४४ ५
१०
१३
waryra