________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
..................... मूलं [८]/गाथा ||४७...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सत्राक
द्वयोर्जीवसमूहयोः भवप्रत्ययं, तद्यथा-देवानां च नारकाणां च, तत्र दिव्यन्ति-निरुपमक्रीडामनुभवन्तीति भवप्रत्यदेवाः तेषां, तथा नरान् कायन्ति-शब्दयन्ति योग्यताया अनतिक्रमेणाकारयन्ति जन्तून् स्वस्थाने इति नरकाःयत्वे हेतु: तेषु भवा नारकाः तेषां, चशब्द उभयत्रापि खगतानेकभेदसूचका, ते च संस्थानचिन्तायामग्रे दर्शयिष्यन्ते । अत्राह पर: नन्ववधिज्ञानं क्षायोपशमिके भावे वर्तते नारकादिभवश्चौदयिके तत्कथं देवादीनामवधिज्ञानं भवप्र-11 त्ययमिति व्यपदिश्यते ?, नैप दोषः, यतस्तदपि परमार्थतः क्षायोपशमिकमेव, केवलं स क्षयोपशमो देवनारकभवे-18/५ प्रवश्यंभाषी, पक्षिणां गगनगमनलब्धिरिय, ततो भवप्रत्ययमिति व्यपदिश्यते, उक्तं च चूर्णी-"नणु ओही|| खाओवसमिए भावे नारगाइभवो से उदइए भावे तओ कहं भवपञ्चहओ भण्णइ ?, उच्यते, सोऽपि खओवसमिओ
चेक, किंतु सो खओवसमो नारगदेवभवेसु अवस्सं भवइ, को दिटुंतो?, पक्खीणं आगासगमणं व, तओ भवदापचइओ भन्नइ" ति ॥ तथा द्वयोः क्षायोपशमिक, तद्यथा-मनुष्याणां च पञ्चेन्द्रियतियग्योनिजानां च, अत्रापि च
शब्दी प्रत्येकं खगतानेकभेदसूचकी, पञ्चेन्द्रियतिर्यगमनुष्याणां चावधिज्ञानं नावश्यंभावि, ततः समानेऽपि साक्षायोपशमिकत्वे भवप्रत्ययादिदं भिद्यते, परमार्थतः पुनः सकलमप्यवधिज्ञानं क्षायोपशमिकं ॥ सम्प्रति क्षायोपशमिकाकखरूपं प्रतिपादयति-'को हेतुः? किं निमित्तं यद्वशादवधिज्ञानं क्षायोपशमिकमित्युच्यते ?, अत्र निर्वचनमभि
धातुकाम आह-क्षायोपशमिकं येन कारणेन तदावरणीयानाम्-अवधिज्ञानावरणीयानां कर्मणामुदीपर्णानां क्षयेण
अनुक्रम [६०]
~164~