SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [3] दीप अनुक्रम [५५] [भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:) मूलं [३] / गाथा ||४७...|| पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४४ ] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः लब्धिरुपयोगश्च तत्र लब्धिः श्रोत्रेन्द्रियादिविषयः सर्वात्मप्रदेशानां तदावरणकर्मक्षयोपशमः, उपयोगः खखविषये लब्धिरूपेन्द्रियानुसारेण आत्मनो व्यापारः इह च द्विविधमपि द्रव्यभावरूपमिन्द्रियं गृह्यते, एकतरस्याप्यभावे इन्द्रियप्रत्यक्षत्वानुपपत्तेः, तत्र इन्द्रियस्य प्रत्यक्षं इन्द्रियप्रत्यक्षं नोइन्द्रियप्रत्यक्षं यत् इन्द्रियप्रत्यक्षं न भवति, नोशब्दः सर्वनिषेधवाची, तेन मनसोऽपि कथञ्चिदिन्द्रियत्वाभ्युपगमात्तदाश्रितं ज्ञानं प्रत्यक्षं न भवतीति सिद्धम् ॥ से किं तं इंदिअपचक्ख ?, इंदिअपञ्चक्खं पंचविहं पण्णत्तं, तंजहा- सोइंदिअपञ्चक्खं चक्खिदिअपचक्खं घाणिंदिअपञ्चक्खं जिम्भिदिअपञ्चक्खं फासिंदिअपञ्चक्खं, से तं इंदिअपञ्चक्खं । ( सू० ४ ) अथ किं तदिन्द्रियप्रत्यक्षं ?, इन्द्रियप्रत्यक्षं पञ्चविधं प्रज्ञसं, तद्यथा-श्रोत्रेन्द्रियप्रत्यक्षमित्यादि, तत्र श्रोत्रेन्द्रियस्य प्रत्यक्षं श्रोत्रेन्द्रियप्रत्यक्षं, श्रोत्रेन्द्रियं निमित्तीकृत्य यदुत्पन्नं ज्ञानं तत् श्रोत्रेन्द्रियप्रत्यक्षमिति भावः, एवं शेपेष्वपि भावनीयम्। एतच व्यवहारत उच्यते, न परमार्थत इत्यनन्तरमेव प्रागुक्तम् । आह - स्पर्शनरसनप्राणचक्षुः श्रोत्राणीन्द्रियाणीति क्रमः, अयमेव च समीचीनः, पूर्वपूर्वलाभ एवोत्तरोत्तरलाभसम्भवात् ततः किमर्थमुत्क्रमोपन्यासः कृतः ?, उच्यते, अस्ति पूर्वानुपूर्वी अस्ति पश्चानुपूर्वीति न्यायप्रदर्शनार्थं, अपि च-शेषेन्द्रियापेक्षया श्रोत्रेन्द्रियं पटु, ततः श्रोत्रेन्द्रियस्य यत् प्रत्यक्षं तच्छेषेन्द्रियप्रत्यक्षापेक्षया स्पष्टसंवेदनं स्पष्टसंवेदनं चोपवर्ण्यमानं विनेयः सुखेनावबुध्यते, ततः सुखप्रतिपत्तये श्रोत्रेन्द्रियादिक्रमः उक्तः ॥ For Parts Only ~162~ इन्द्रियप्रत्यक्षभेदाः सू. ४ ५ १३ war
SR No.035038
Book TitleSavruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages528
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy