________________
आगम
(४४)
प्रत
सूत्रांक
[8]
दीप
अनुक्रम
[43]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [१]/ गाथा ||४७...||
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४४ ] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
सर्वाण्यपि केवलज्ञानेऽपि विद्यन्ते, अन्यथा केवलज्ञानेन तेषामग्रहणप्रसङ्गाद्, अविषयत्वात् तथा च सति केवलिनोऽप्यसर्वज्ञत्वप्रसङ्गः, आभिनिवोधिकादिज्ञानचतुष्टयविषयजातस्य तेनाग्रहणात्, न चैतदिष्टमिति, अथोच्येतप्रतिपत्तिप्रकारभेदत आभिनिवोधिकादिभेदः, तथाहि-न याशी प्रतिपत्तिराभिनिवोधिकज्ञानस्य तादृशी श्रुतज्ञानस्य किन्त्वन्यादृशी, एवमवध्यादिज्ञानानामपि प्रतिपत्तव्यम्, ततो भवत्येव प्रतिपत्तिभेदतो ज्ञानभेदः, तदप्ययुक्तम्, एवं सत्येकस्मिन्नपि ज्ञानेऽनेकभेदप्रसक्तेः तथाहि त संदेश कालपुरुषस्वरूपभेदेन विविच्यमानमेकैकं ज्ञानं प्रतिपत्तिप्रकारानन्त्यं प्रतिपद्यते, तन्नैषोऽपि पक्षः श्रेयान् स्यादेतद्-अस्त्यावारकं कर्म्म, तच्चानेकप्रकारं, ततः तद्भेदात् तदावायें ज्ञानमप्यनेकतां प्रतिपद्यते, ज्ञानावारकं च कर्म्म पञ्चधा, प्रज्ञापनादौ तथाऽभिधानात् ततो ज्ञानमपि पञ्चधा प्ररूप्यते, तदेतदतीय युक्तत्यसङ्गतं यत आवार्यापेक्षमावारकमत आवार्यमेदादेव तद्भेदः, आवार्य च ज्ञतिरूपापेक्षया सकलमप्येकरूपं, ततः कथमावारकस्य पञ्चरूपता ? येन तद्भेदात् ज्ञानसापि पञ्चविधो भेद उद्गीर्येत, अथ स्वभावत एवाभिनिवोधिकादिको ज्ञानस्य भेदो, न च खभावः पर्यनुयोगमनुते, न खलु किं दहनो दहति नाकाशमिति कोऽपि पर्यनुयोगमाचरति, अहो महती महीयसो भवतः शेमुषी, नतु यदि खभावत एवाभिनिवोबादिको ज्ञानस्य | भेदस्तर्हि भगवतः सर्वज्ञत्वहानिप्रसङ्गः तथाहि-- ज्ञानमात्मनो धर्मः, तस्य चाभिनिवोधादिको भेदः खभावत एव व्यवस्थितः क्षीणायरणस्यापि तद्भावप्रसङ्गः सति च तद्भावेऽस्मादृशस्येव भगवतोऽप्यसर्वज्ञत्वमापद्यते, केवलज्ञान
Eucation International
For Parts Only
~ 144~
ज्ञानस्य
भेदपञ्चकसिद्धि,
५
१३
org