________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
..................... मूलं [१]/गाथा ||४७...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सत्राक
श्रीमलय- नाद्यापि निखिलकर्ममलापगमः तावद्यथा यथा देशतः कर्ममलोच्छेदः तथा तथा देशतः तस्य विज्ञप्तिरुज्जम्भते, सा ज्ञानपञ्चगिरीया च कचित्कदाचित्कथञ्चिदित्यनेकप्रकारा, उक्तं च-"मलविद्धमणेयक्तिर्यथाऽनेकप्रकारतः । कम्र्मविद्वात्मविज्ञ-ग
कसिद्धिः नन्दीतिः सिस्तथाऽनेकप्रकारतः ॥१॥" सा चानेकप्रकारता मतिश्रुतादिभेदेनावसेया, ततो यथा मरकता दिमणेरशेषमला- |१५ ॥६६॥ पगमसम्भवे समस्तास्पष्टदेशव्यक्तिव्यवच्छेदेन परिस्फुटरूपैकाऽभिव्यक्तिरुपजायते तद्वदात्मनोऽपि ज्ञानदशन रि
प्रभावतो निःशेषावरणप्रहाणादशेषज्ञानव्यवच्छेदेनैकरूपा अतिस्फुटा सर्ववस्तुपर्यायसाक्षात्कारिणी विज्ञप्तिरुलसति, तथा चोक्तम्-“यथा जात्यस्य रत्नस्य, निःशेषमलहानितः । स्फुटैकरूपाऽभिव्यक्तिर्विज्ञप्तिस्तद्वदात्मनः ॥ १॥" ततो मत्यादिनिरपेक्षं केवलज्ञानं, अथवा युद्ध केवलं, तदावरणमलकलङ्कस्य निःशेषतोऽयगमात् , सकलं वा केवलं, प्रथमत एवाशेषतदावरणापगमतः सम्पूणोत्पत्तेः, असाधारणं वा केवलमनन्यसदृशत्वात् , अनन्तं वा केवलं ज्ञेयानन्तत्वात् , केवलं च तज्ज्ञानं च केवलज्ञानं ५॥ ननु सकलमपीदं ज्ञानं ज्ञत्येकखभावं, ततो ज्ञात्येकखभावत्वाविशेषे किंकृत एष आभिनिवोधकादिभेदो?, ज्ञेयभेदकृत इति चेत्, तथाहि-वार्तमानिक वस्त्वाभिनिबोधिकज्ञानस्य ज्ञेयं, त्रिकालसाधारणः समानपरिणामो धनिर्गोचरः श्रुतज्ञानस्य, रूपिद्रव्याण्यवधिज्ञानस्य, मनोद्रयाणि मनःपर्यायज्ञानस्स, समस्तपर्यायान्वितं सर्व वस्तु केवलज्ञानस्य, तदेतदसमीचीनम् , एवं सति केवलज्ञानस्य भेदवाहुल्यप्रसक्तेः, तथाहि-ज्ञेयभेदात् ज्ञानस्य भेदः, यानि च ज्ञेयानि प्रत्येकमाभिनिवोधिकादिज्ञानानामियन्ते तानि |
२५
अनुक्रम [५३]
ACCORERNACROCE
In६६॥
~143~