________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [-1/गाथा ||३३|| ...... ......................... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक ||३३||
श्रीमलय-15 लाचार्यान् सिंहवाचकसूरिशिष्यान् पहुषु नगरेषु निर्गत-प्रसृतं यशो येषां ते बहुनगरनिर्गतयशसस्तान् वन्दे । अथा- डि
यमनुयोगोऽर्द्धभरते व्याप्रियमाणः कथं तेषां स्कन्दिलनाम्नामाचार्याणां सम्बन्धी ?, उच्यते, इह स्कन्दिलाचार्यप्र-पलिका. गा. नन्दाचितिपत्तौ दुष्पमसुषमाप्रतिपन्थिन्याः तद्गतसकलशुभभावग्रसनैकसमारम्भायाः दुष्षमायाः साहायकमाधातुं परमसुह-12
३१-३४ | दिव द्वादशवार्षिकं दुर्भिक्षमुदपादि, तत्र चैवंरूपे महति दुर्भिक्षे भिक्षालाभस्यासम्भवादवसीदतां साधूनामपूर्वार्थ
१५ ग्रहणपूर्वार्थस्मरणश्रुतपरावर्त्तनानि मूलत एवापजग्मुः, श्रुतमपि चातिशायि प्रभूतमनेशत् , अङ्गोपाङ्गादिगतमपि भावतो विप्रनष्टम् , तत्परावर्चनादेरभावात् , ततो द्वादशवर्षानन्तरमुत्पन्ने सुभिक्षे मथुरापुरि स्कन्दिलाचार्यप्रमुखश्रमणसङ्घनैकत्र मिलित्वा यो यत्स्मरति स तत्कथयतीत्येवं कालिकश्रुतं पूर्वगतं च किश्चिदनुसन्धाय घटितं, यतश्चैतन्मथुरापुरि सङ्घटितमत इयं वाचना माथुरीत्यभिधीयते, सा च तत्कालयुगप्रधानानां स्कन्दिलाचार्याणामभिमता तैरेव चार्थतः शिष्यबुद्धिं प्रापितेति तदनुयोगः तेषामाचार्याणां सम्बन्धीति व्यपदिश्यते । अपरे पुनरेवमाहुः-न किमपि श्रुतं दुर्भिक्षवशात् अनेशत्, किन्तु तावदेव तत्काले श्रुतमनुवर्तते स्म, केवलमन्ये प्रधाना येऽनुयोगधराः ते सर्वेऽपि दुर्भिक्षकालकबलीकृताः, एक एव स्कन्दिलसूरयो विद्यन्ते स्म, ततस्तैर्दुर्भिक्षापगमे मथुरापुरि पुनरनुयोगः प्रवर्तित इति वाचना माथुरीति व्यपदिश्यते, अनुयोगश्च तेषामाचार्याणामिति ॥| तत्तो हिमवन्तमहंतविक्कमे धिइपरकममणंते । सज्झायमणंतधरे हिमवंते वंदिमो सिरसा ॥३४॥ २५
दीप अनुक्रम [३५]]
का॥५१॥
SARERatininemarana
~113~