________________
आगम (४३)
[भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [७], मूलं [-] / गाथा ||२१|| नियुक्ति: [२४९...]
प्रत सूत्रांक ||२१||
जेसिं तु विउला सिक्खा, मूलियते अतिच्छिया । सीलवंता सविसेसा, अद्दीणा जंति देवयं ॥ २१॥ व्याख्या-'येषां तु' येषां पुनः 'विपुला' निःशङ्कितत्वादिसम्यक्त्वाचाराणुव्रतमहाव्रतादिविषयत्वेन विस्तीर्णा 'शिक्षा' ग्रहणासेवनात्मिका, अस्तीति गम्यते, मूले भवं मौलिक-मूलधनमिव मानुषत्वं, त एवंविधाः, विउट्टियत्ति अतिट्टियत्ति अतिच्छियचि पाठत्रयेऽपि अतिक्रान्ताः-उल्लचितवन्त इत्यर्थः, यद्वाऽतिकम्य-उल्लङय, कीरशाः सन्तः १-शील-सदाचारः अविरतसम्यग्दशां विरतिमतां तु देशसविरमणात्मकं चारित्रं तद्विद्यते येषां ते शील-| वन्तः, तथा सह विशेषेण-उत्तरोत्तरगुणप्रतिपत्तिलक्षणेन वर्तन्त इति सविशेषाः, अत एव 'अदीनाः कथं वयममुत्र भविष्याम इति वैक्लव्यरहिताः परिपहोपसर्गादिसम्भवे वा न दैन्यभाज इत्यदीनाः 'यान्ति' प्राप्नुवन्ति, देवभावो | देवता सैव दैवतं । ननु तत्त्वतो मुक्तिगतिरेव लाभः, तकिमिह तत्परिहारतो देवगतिरुक्तेति ?, उच्यते, सूत्रस्य | त्रिकालविषयत्वात्, मुक्तेश्चेदानीं विशिष्ट संहननाभावतोऽभावाद्देवगतेश्च "छेवढेण उ गम्मइ चत्तारि उ जाव आदिमा कप्पा" इति वचनाच्छेदपरिवर्तिसंहननिनामिदानींतनानामपि सम्भवादेवमुक्तमिति सूत्रार्थः । प्रस्तुतमेवार्थ निगमयन्नुपदेशमाहएवं अदीणवं भिक्खू, अगारिं च विजाणिया। कहन्नु जिञ्चमेलिक्खं, जिच्चमाणो न संविदे ॥ २२॥ १ सेवार्तेन तु गम्यते चत्वारो यावदादिमाः कल्पाः
दीप
अनुक्रम [१९९]
m
aintenang
For
any
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~65