________________
आगम (४३)
प्रत
सूत्रांक
||१९||
दीप
अनुक्रम
[१९७]
[भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा ||१९|| निर्युक्तिः [२४९...]
अध्ययनं [७],
एवं जियं सपेहाए, तुलिया बालं च पंडियं । मूलियं ते पविस्संति, माणुस जोणिमिति जे ॥ १९ ॥ व्याख्या- 'एवम्' उक्तनीत्या 'जिए'ति सुन्यत्ययाजितं डोलतया शाख्येन च देवमनुजत्वे हारितं वालमिति प्रक्रमः, 'सपेहाए' त्ति सम्प्रेक्ष्य सम्यगालोच्य, तथा तोलयित्येव तोलयित्वा गुणदोषवत्तया परिभाव्य, यदिवैवं जितं सम्यग् - अविपरीता प्रेक्षा- बुद्धिः सम्प्रेक्षा तया तोलयित्वा, कम् ? - 'बालं' चस्य भिन्नक्रमत्वात् 'पण्डितं च' तद्विपरीतम्, अथवा मनुष्यदेवगतिगामिनम्, इह च द्वितीयव्याख्यायामेवं जितमिति बालस्य विशेषणं, न तु पण्डितस्य, असम्भवात् तथा च सति मूले भवं मौलिकं-मौलधनं ते प्रवेशयन्तीव प्रवेशयन्ति, मूलप्रवेशकवणिक्सदृशास्त इत्यभिप्रायः ये किमित्याह - 'माणुस्सं'ति मनुष्याणामियं मानुषी तां 'योनिम् ' उत्पत्तिस्थानम् 'आयान्ति' आगच्छन्ति, बालत्वपरिहारेण पण्डितत्वमासेवमाना ये त इति सूत्रार्थः ॥ यथा च मानुषीं योनिमायान्ति तथा चाह
मायाहिं सिक्खाहिं, जे नरा गिहि सुब्वया । उर्विति माणुसं जोणीं, कम्मसचा हु पाणिणो ॥ २० ॥ व्याख्या - विविधा मात्रा - परिमाणमासां विमात्राः - विचित्र परिमाणाः ताभिः परिमाणविशेषमाश्रित्य विसर - शीभिः 'शिक्षाभिः' प्रकृतिभद्रकत्वाद्यभ्यासरूपाभिः उक्तं हि - " चउहिं ठाणेहिं जीवा मणुयाउं बंधंति, तंजहा| पगतिभयाए पगतिविणीययाए साणुकोसयाए अमच्छरियाए "त्ति 'ये' इत्यविवक्षितविशेषाः 'नराः पुरुषाः, १ चतुर्भिः स्थानैर्जीवा मनुजायुर्वघ्नन्ति, तयथा प्रकृतिभद्रकतया प्रकृतिविनीततया सानुक्रोशतया अमत्सरितया ।
Jan Education intemational
For Person Prat
janetary org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~63~