________________
आगम (४३)
[भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [७], मूलं [-1 / गाथा ||१७|| नियुक्ति: [२४९...]
fotech
प्रत सूत्रांक ||१७||
यथा मूलच्छेदेन नरकतिर्यक्त्वप्राप्तिः तथा खयं सूत्रकृदाह__ दुहओ गती बालस्स, आवती वहमूलिया। देवत्तं माणुसत्तं च, जं जिए लोलुआसढे ॥१७॥
व्याख्या-'दुहतो'त्ति द्विधा द्विप्रकारा, गस्यत इति गतिः, सा चेह प्रक्रमान्नरकगति स्तिर्यग्गतिश्च, कस्येत्याहबालस्य' द्वाभ्यां रागद्वेषाभ्यामाकुलितस्य, 'आवइति आगच्छत्यापतति वध:-प्राणिघातः, उपलक्षणत्वान्महारम्भमहापरिग्रहानृतभाषणमायादयश्च मूलं-कारणं यस्याः सा वधमूलिका, यदिवा-द्विधा गतिर्वालस्य, भवतीति गम्यते, तत्र च गतस्य 'आवई'ति आपत् , सा च कीदृशीत्याह-वधो-विनाशस्ताडनं वा मूलम्-आदिर्यस्याः सा वधमूलिका, वधग्रहणाच्छेदभेदातिभारारोपणादिपरिग्रहः, लभन्ते हि प्राणिनो नरकतिर्यक्षु विविधा वधाचापदः, किमिस्येवम् !, अत आह-'देवत्वं देवभवं 'मानुषत्वं' मनुजभवं 'यद' यस्मात् 'जितो' हारितो 'लोलयासढे'त्ति लोलतापिशितादिलाम्पट्यं तद्योगाजन्तुरपि तन्मयत्वख्यापनार्थ लोलतेत्युक्तः, शाख्ययोगाच्छठः-विश्वस्तजनवञ्चकः, ततो लोलता चासौ शठश्च लोलताशठः, इह च लोलता पञ्चेन्द्रियवधायुपलक्षणं, तथा च नरकहेतुत्वाभिधानमेतत् , यदुक्तम्-"महारंभयाए महापरिग्गयाए कुणिमाहारेणं पंचेंदियवहेणं जीवा जेरयाउयं णियच्छंति" शठ इत्यनेन तु शाठ्यमुक्तं, तच तिर्यग्गतिहेतुः, उक्तं च-"माया तैर्यग्योनस्ये" (तत्त्वार्थे अ०६-सू०१७) ति, अतश्चायमाशयः १ महारम्भतया महापरिग्रहतया मांसाहारेण पञ्चेन्द्रियवधेन जीवा नैरयिकायुनियमयन्ति ।
दीप
अनुक्रम [१९५]
Faramanantimonld
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~61~