________________
आगम
(४३)
प्रत
सूत्रांक
||१६||
दीप अनुक्रम
[१९४]
उत्तराध्य
बृहद्वृत्तिः
॥२७९॥
[भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा ||१६|| निर्युक्तिः [२४९...]
अध्ययनं [७],
सम्प्रति सूत्रमनुखियते - 'व्यवहारे' व्यवहारविषया 'उपमा' सादृश्यं 'एषा' अनन्तरोक्ता 'एवं' वक्ष्यमाणन्यायेन 'धर्मे' धर्मविषयामेवोपमां 'विजानीत' अवबुध्यध्वमिति सूत्रार्थः ॥ कथमित्याह
माणुसतं भवे मूलं, लाभो देवगई भवे । मूलच्छेएण जीवाणं, नरगतिरिक्खत्तणं धुवं ॥ १६ ॥ व्याख्या- 'मानुषत्वं' मनुजत्वं 'भवेत्' स्यात् मूलमिव मूलं, खर्गापवर्गात्मकतदुत्तरोत्तरलाभहेतुतया, तथा | लाभ इव लाभः मनुजगत्यपेक्षया विषयसुखादिभिर्विशिष्टत्वात् 'देवगतिः' देवत्वावाप्तिर्भवेत्, एवं च स्थिते किमित्याह-- 'मूलच्छेदेन' मानुषत्वगतिहान्यात्मकेन 'जीवानां' प्राणिनां 'नरकतिर्यक्त्वं' नरकत्वं तिर्यक्त्वं च तद्गत्यात्मकं 'ध्रुवं' निश्चितम् इहापि सम्प्रदायः- तिन्नि संसारिणो सत्ता माणुस्सेसु आयाता, तत्थेगो मद्दवजवादिगुणसंपन्नो मज्झिमारंभपरिग्गहजुत्तों कालं काऊण काहावण सहस्समूलत्थाणीयं तमेव माणुस्सत्तं पडिलहति, बितितो पुण सम्महंसण चरित्तगुण सुपरिद्वतो सरागसंजमेण लद्धलाभवणिय इव देयेसु उपवन्नो, ततितो पुण हिंसे वाले मुसावाती इथेतेहिं पुचभणितेहिं सावज्जजोगेहिं बहिउं छिन्नमूलवणिय इव णारगेसु तिरिएसु वा उववज्जतित्ति सूत्रार्थः ॥
१ त्रयः संसारिणः सत्त्वा मानुषेष्वायाताः, तत्रैको मार्दवार्जवादिगुणसंपन्नो मध्यमारम्भपरिग्रहयुक्तः कालं कृत्वा कार्षापणसहस्रमूलस्थानीयं तदेव मानुषत्वं प्रतिलभते, द्वितीयः पुनः सम्यग्दर्शनचारित्रगुणमुपरिस्थितः सरागसंयमेन लब्धलाभवणिगिव देवेषूत्पन्नः, तृतीयः पुनर्हिस्रो वालो मृषावादीत्येतैः पूर्वभणितैः सावययोगैः वर्त्तित्वा छिन्नमूलवणिगिव नारकेषु तिर्यक्षु वत्
।
Education intemational
For Personal Prat Use On
औरश्री
याध्य. ७
~60~
॥२७९ ॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः