________________
आगम (४३)
[भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [७], मूलं [-1 / गाथा ||१३|| नियुक्ति: [२४९...]
प्रत सूत्रांक ||१३||
दह-'या से'ति प्रज्ञापकः शिष्यान् प्रत्येवमाह-या सा भवतामस्माकं च प्रतीता, प्रकर्षण ज्ञायते वस्तु-सतत्त्वमनयेति ।
प्रज्ञा-हेयोपादेयविवेचिका बुद्धिः सा विद्यतेऽस्यासौ प्रज्ञावान् , 'अतिशायने मतुप्' अतिशयश्चास्या हेयोपादेययोः
हानोपादाननिवन्धनत्वमिहाभिमतं ततश्च क्रियाया अप्याक्षिप्तत्वात् यदिवा निश्चयनयमतेन क्रियारहिता प्रज्ञाPऽप्यप्रवेति प्रज्ञयैव क्रियाऽऽक्षिप्यते ततः प्रज्ञावान् ज्ञानक्रियावानित्युक्तं भवति, तस्य प्रज्ञावतः स्थीयतेऽनयाऽर्थात्
देवभव इति स्थितिः-देवायुः, अधिकृतत्वात् दिव्यकामाश्च, तानि च कीदृशीत्याह-यान्यनेकवर्णनयुतानि दिव्यस्थितेर्दिव्यकामानां च विषयभूतानि 'जीयन्ते' हार्यन्ते, तद्धेतुभूतानुष्ठानानासेवनेनेति भावः, पाठान्तरतो 'हारयन्ति वा,' के ते?-दुष्टा-विपर्ययादिदोषदुष्टत्वेन मेधा-वस्तुखरूपावधारणशक्तिरेषां ते दुर्मेधसः, विषयैर्जिता जन्तव इति गम्यते, कदा पुनस्तानि दुर्मेधसो विषयीयन्त इत्याह-ऊने वर्षशतायुषि, अनेनायुषोऽल्पत्वात् मनुष्यकामानामप्यल्पतामाह, यदिवा प्रभूते वायुषि प्रमादेनैकदा हारितान्यपि पुनर्जीयेरन् , अस्मिंस्तु संक्षिप्तायुष्येकदा हारितानि हारितान्येव, भगवतश्च वीरस्य तीर्थे प्रायो न्यूनवर्पशतायुष एव जन्तव इतीत्थमुपन्यासः, अयं चात्र भावार्थ:-अल्पं मनुष्याणामायुर्विषयाश्चेति काकण्याम्रफलोपमाः, देवायुर्देवकामाश्चातिप्रभूततया कार्षापणसहस्र१भूमनिन्दाप्रशंसासु, नित्ययोगेऽतिशायने । संवन्धेऽस्ति विवक्षायां, भवन्ति मतुवादयः ।। १ ।। इत्युक्तेः
दीप
अनुक्रम [१९१]
SOMEdition
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~57