________________
आगम (४३)
[भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [७], मूलं [-1 / गाथा ||१|| नियुक्ति: [२४८]
प्रत सूत्रांक
||१८||
xi व्याख्या-'उरन' उक्तरूपः 'काकिणिः' विंशतिकपर्दकाः 'उरन्भे यति चशब्दस्य भिन्नक्रमत्वात् काकिणिश्च
अंबए यत्ति आम्रकं च-आम्रफलं, व्यवहारश्च-क्रयविक्रयरूपो वणिग्धर्मः, चस्य गम्यमानत्वात् , सागरश्व-समुद्रः,
चः सर्वत्र समुच्चये, एवोऽवधारणे, भिन्नक्रमश्चैवं योज्यते-पञ्चैवैते न तु न्यूनाधिकाः 'दृष्टान्ता' उदाहरणानि 'उरभ्रीये' 18 उरभ्रीयनाम्न्यध्ययन इति गाथार्थः ॥ सम्प्रति यदर्थसाधादुरभ्रस्य दृष्टान्तता तदुपदर्शनायाह
आरंभे रसगिद्धी दुग्गतिगमणं च पच्चवाओ य । उवमा कया उरब्भे उरब्भिजस्स निजुत्ती ॥ २४८॥ | व्याख्या-आरम्भणं आरम्भः-पृथिव्याधुपमर्दः, रसेषु-मधुरादिषु गृद्धिः-अभिकाजा रसगृद्धिः, दुर्गतिगमनं चनरकतिर्यगादिषु च पर्यटनं, प्रत्यपायचेहैव शिरश्छेदादिः, वक्ष्यति हि "सिरं छेत्तूण भुजति त्ति शिरश्छेदादातरौद्रोपगतस्य दुर्गतिपाते दुःखानुभवनादिरुपमा-सादृश्योपदर्शनरूपा, प्रक्रमादेभिरेवारम्भादिभिरथैः 'कृता' विहिता 'उरभ्रे उरभ्रविषया, इदमुक्तं भवति-साम्प्रतक्षिणो हि विषयामिषगृनवस्तांस्तानारम्भानारभन्ते, आरभ्य चोपचितकर्मभिः कालशौकरिकादिवदिहैव दुःखमुपलभ्य नरकादिकां कुगतिमाप्नुवन्तीत्युरभ्रोदाहरणता इहोपदश्यते, काकिण्यादिसाधर्म्यदृष्टान्तोपलक्षणं चैतद्, 'उरनीयस्य नियुक्ति'रिति निगमनमेतदिति गाथार्थः ॥ इत्यवसितो नामनिष्पननिक्षेपः, सम्प्रति सूत्रालापकनिक्षेपावसरः, स च सूत्रे सति भवतीत्यतः सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्
जहाऽऽएसं समुहिस्स, कोइ पोसेज एलयं । ओयणं जवसं देजा, पोसेजावि सयंगणे ॥१॥
दीप अनुक्रम [१७८]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~450