SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ॥८८ -९३|| दीप अनुक्रम [ ७०२ -७०७] [भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [१९], मूलं [-] / गाथा ||८८-९३ || निर्युक्ति: [४१८...] मानापमानयोः, गौरवादीनि सूत्रे सुच्च्यत्ययेन सप्तम्यन्ततया निर्दिष्टानि पञ्चम्यन्ततया व्याख्येयानि, निर्वृत्त इति च सर्वत्र सम्बन्धनीयम्, 'अबन्धनः' रागद्वेषवन्धनरहितः ॥ अत एव 'अनिश्रितः' इहलोके परलोके वाऽनिश्रितो नेहलोकार्थे परलोकार्थं वाऽनुष्ठानवान् 'णो इहलोगट्टयाए तत्रमहिद्वेज्जा नो परलो गट्टयाए तब म हिडेजा' इत्याद्यागमात् पुनरनिश्रिताभिधानं च मन्दमतिविनेयानुग्रहार्थमदुष्टमेव, वासीचन्दनकल्प इत्यनेन समत्वमेव विशेपत आह, वासी चन्दनशब्दाभ्यां च तद्व्यापारकपुरुषावुपलक्षितौ, ततश्च यदि किलेको वास्या तक्ष्णोति, अन्यश्च गोशीर्षादिना चन्दनेनालिम्पति, तथाऽपि रागद्वेषाभावतो द्वयोरपि तुल्यः, कल्पशब्दस्येह सदृशपर्यायत्वात्, 'अनशने' इति च नञाऽभावे कुत्सायां वा, ततश्वाशनस्य-भोजनस्याभावे कुत्सिताशनभावे वा कल्पः, इह चेष्टितोऽधिकाराणां प्रवृत्तिरिति पूर्वत्र समस्तमपि कल्प इत्यनुवर्त्तते, 'अप्रशस्तेभ्यः' प्रशंसाऽनास्पदेभ्यः 'द्वारेभ्यः ' कर्मोपार्जनोपायेभ्यो हिंसादिभ्यः 'सर्वतः सर्वेभ्यो य आश्रवः- कर्मसंलगनात्मकः स पिहितः - तद्द्वारस्थगनतो निरुद्धो येनासौ पिहिताश्रवः, सापेक्षस्यापि गमकत्वात्समासः, यद्वाऽप्रशस्तेभ्यो द्वारेभ्यः सर्वेभ्यो निर्वृत्त इति गम्यते, अत एव पिहिताश्रवः, कैः पुनरयमेवंविधः ? - अध्यात्मेत्यात्मनि ध्यानयोगाः - शुभध्यानव्यापारा अध्यात्मध्यानयोगास्तैः, अध्यात्मग्रहणं तु परस्थानां तेपामकिञ्चित्करत्वाद्, अन्यथाऽतिप्रसङ्गात्, प्रशस्तः प्रशंसास्पदो दमश्च – उपशमः शासनं च - सर्वज्ञागमात्मकं यस्य स प्रशस्तदमशासन इति सूत्रपङ्कार्थः ॥ सम्प्रति तत्फलोपदर्शनायाह Education Indematanal For Parsons Private Onl पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः ~430~
SR No.035036
Book TitleSavruttik Aagam Sootraani 1 Part 36 Uttaradhyayan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy