________________
आगम (४३)
[भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [६], मूलं [-1 / गाथा ||१८|| नियुक्ति: [२४३...]
क्षुल्लकनिग्रन्थीयम्.
ल
प्रत
सूत्रांक
उत्तराध्य. रक्षत्रियः स चेह प्रस्तावात् सिद्धार्थः तस्य पुत्रो ज्ञातपुत्रः-वर्तमानतीर्थाधिपतिर्महावीर इतियावत् 'भगवान्
समग्रैश्वर्यादिमान् , 'वेसालीय'त्ति विशाला:-शिष्याः तीर्थ यशःप्रभृतयो वा गुणा विद्यन्ते यस्येति विशालिकः "इनि
ठना" (अत इनि ठनी पा०५-२-११५) विति ठन् , यद्वा विशालेभ्यः-उक्तखरूपेभ्यो हित इति हितार्थे ठन्प्रत्ययः15 ॥२७०॥ (तस्मै हितम् पा०५-१-५), ततश्च विशालीयः 'वियाहिए'त्ति व्याख्याता सदेवमनुजासुरायां पर्षदि विशेषेणा-1
नन्यसाधारणात्मकेनाख्याता-कथयिता, केचित्त्वधीयते-'एवं से उदाहु अरिहा पासे पुरिसादाणीए भगवं बेसा
लीए बुद्धे परिणिवुए ति स्पष्टमेव, नवरमर्हन्निति सामान्योक्तावपि प्रक्रमात् महावीरः, पश्यति समस्तभावान् केवदलालोकेनावलोकत इति पश्यः, तथा पुरुषश्चासौ पुरुषाकारवर्तितया आदानीयश्च आदेयवाक्यतया पुरुषादानीयः,
पुरुषविशेषणं तु पुरुष एवं प्रायस्तीर्थकर इति ख्यापनार्थ, पुरुषैर्वाऽऽदानीयो ज्ञानादिगुणतया पुरुषादानीय इति सूत्रार्थः ॥ इतिः परिसमाप्तौ, अवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयाः, ते च पूर्ववद्वाच्याः। इति श्रीशात्याचार्यविरचितायां शिष्यहितायामुत्तराध्ययनटीकायां षष्टमध्ययनं समाप्तमिति ॥ ॥ ॥ ॥ ॥
||१८||
ACCE%*दक
दीप अनुक्रम [१७८]
टर
॥ इति श्रीशान्त्याचायिटीकायां श्रीक्षुल्लकनिम्रन्थीयं षष्ठमध्ययनं समासम् ॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
अत्र अध्ययनं-६ परिसमाप्तं
~42