________________
आगम (४३)
[भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१८], मूलं [-] / गाथा ||२५|| नियुक्ति: [४०३...]
प्रत सूत्रांक ||२५||
पापकारिणः, ये त्वेवंविधा न भवन्ति ते किमित्याह-'दिव्यां च गति' देवलोकगति, चशब्दः पुनरर्थे, सच पूर्वेभ्यो विशेषद्योतकः, 'गच्छन्ति' यान्ति 'चरित्वा' आसेव्य धर्मः-श्रुतधर्मादिरनेकविधः, इह च सत्प्ररूपणारूपः श्रुतधर्म एव तं, आय-प्राग्वत् , तदयमभिप्रायः-असत्प्ररूपणापरिहारेण सत्प्ररूपणापरेणैव च भवता भवितव्यमिति ४ सूत्रार्थः । कथं पुनरमी पापकारिण इत्याह___ मायावुइयमेयं तु, मुसा भासा निरस्थिया । संजममाणोऽपि अहं, वसामि इरियामि य ॥ २६ ॥
मायया-शाठ्येन बुइयंति-उक्तं मायोक्तम् एतत्' यदनन्तरं क्रियादिवादिभिरुक्तं, 'तुः'एवकारार्थो भिन्नक्रमच समायोक्कमेव, अतश्चैतत् 'मृषा' अलीका 'भाषा' उक्तिः 'निरर्थिका सम्यगभिधेयशून्या, तत एव च 'संजममामणोऽवि'त्ति 'अपिः' एवकारार्थस्ततः संयच्छन्नेव-उपरमन्नेव तदुक्त्याकर्णनादितः 'अहम्' इत्यात्मनिर्देशे विशेषतस्तस्थिरीकरणार्थम् , उक्तं हि-"ठियतो ठावए परं"ति, 'वसामि' तिष्ठामि उपाश्रय इति शेषः, 'इरियामि यति ईरे ।
च-च्छामि च गोचरचर्यादिष्विति सूत्रार्थः ॥ इदमपि सूत्रं प्रायो न दृश्यते । कुतः पुनस्त्वं तदुत्त्याकर्णनादिभ्यः । है. संयच्छसीत्याह-अनन्तरसूत्राभावे च यदुक्तं चतुर्भिः स्थानमयज्ञाः किंप्रभाषन्ते इति, तत्कुत इत्याह
सब्वे ते विइया मज्झं, मिच्छादिही अणारिया। विजमाणे परे लोए, सम्मं जाणामि अप्पगं ॥ २७॥ 'सर्वे' निरवशेषाः 'ते' क्रियादिवादिनः 'विदिताः' ज्ञाता मम, यथाऽमी 'मिच्छद्दिष्टित्ति मिथ्या-विपरीता|
दीप अनुक्रम [५८४]
Furammarwata tiwand
warjanatarangaro
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~390