________________
आगम
(४३)
प्रत
सूत्रांक
||२७||
दीप
अनुक्रम
[५८६ ]
उत्तराध्य.
बृहद्वृत्तिः
॥४४५॥
[भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा ||२७|| निर्युक्तिः [४०३...]
अध्ययनं [१८],
परलोकात्माद्यपलापित्वेन दृष्टि:- बुद्धिरेषामिति मिथ्यादृश्यः तत एव 'अनार्थी' अनार्यकर्मप्रवृत्ताः कथं पुनस्त एवंविधास्ते विदिता इत्याह- 'विद्यमाने' सति 'परलोके' अन्यजन्मनि 'सम्यम्' अविपरीतं 'जानामि' अवगच्छामि 'अप्पमं' ति आत्मानं, ततः परलोकात्मनोः सम्यग्वेदनात् ममैवंविधत्वेन विदितास्ततोऽहं तदुक्त्याकर्णनादितः संय|च्छामि किं प्रभाषकाश्चैत इति सूत्रार्थः ॥ कथं पुनस्त्वमात्मानमन्यजन्मनि जानासीत्याह
अहमासी महापाणे, जुइमं वरिससओवमे । जा सा पाली महापाली, दिव्वा वरिसस ओवमा ॥ २८ ॥ से चुप भलोगाओ, माणुस्सं भवमागए। अप्पणो य परेसिं च, आउँ जाणे जहा तहा ।। २९ ।। 'अहमासि'ति अहमभूवं 'महाप्राणे' महाप्राणनाम्नि ब्रह्मलोकविमाने 'धुतिमान्' दीप्तिमान् 'वरिससतोयमे' ति वर्षशतजीविना उपमा-दृष्टान्तो यस्यासौ वर्षशतोपमो मयूरव्यंसकादित्वात्समासः, ततोऽयमर्थः यथेह वर्षशतजीवी इदानीं परिपूर्णायुरुच्यते, एवमहमपि तत्र परिपूर्णायुरभूवं, तथाहि - या सा पालिरित्र पालि:- जीवितजलधारणाद्भवस्थितिः, सा चोत्तरत्र महाशब्दोपादानादिह पल्योपमप्रमाणा, 'महापाली' सागरोपमप्रमाणा, तस्या एव महत्त्वात्, दिवि भवा दिव्या वर्षशतेनोपमा यस्याः सा वर्षशतोपमा, यथा हि वर्षशतमिह परमायुः तथा तत्र महापाली, उत्कृष्टतोऽपि हि तत्र सागरोपमैरेवायुरुपनीयते, न तत्सर्पिण्यादिभिः, अथवा - " योजनं विस्तृतः पल्यस्तथा योजनमुत्सृतः । सप्तरात्रप्ररूढाणां, केशाग्राणां स पूरितः ॥ १ ॥ ततो वर्षशते पूर्णे, एकैकं केशमुद्धरेत् । क्षीयते
For Parsons Private
संयतीया
ध्य. १८
~391~
॥४४५||
org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः