SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||१५|| दीप अनुक्रम [१७५] [भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) निर्युक्तिः [२४३...] अध्ययनं [६], मूलं [-] / गाथा ||१५|| अनुष्ठानप्रस्तावं काङ्क्षत इत्येवंशीलः कालकाङ्क्षी, 'परित्रजे' रिति पूर्ववत्, पठन्ति च 'विगिंच कम्मुणो हेउ'न्ति अत्र च 'बेविग्धि' परित्यजेत्युपदेशान्तरतया व्याख्येयं मात्रां यावत्या संयमनिर्वाहस्तावतीं, ज्ञात्वेति गम्यते, कस्य १'पिण्डस्य' ओदनादेरन्नस्य 'पानस्य च ' आयामादेः, खाद्यखाद्यानुपादानं च यतेः प्रायस्तत्परिभोगासम्भवात् कृतम् - आत्मार्थमेव निर्वर्तितं, गृहिभिरिति गम्यते, प्रक्रमात्पिण्डादिकमेव 'लब्ध्वा' प्राप्य 'भक्षयेद्' अभ्यवहरेदिति सूत्रार्थः ॥ कदाचिद्भुक्तशेषं धारयतोऽभिष्वङ्गसम्भवः स्यादित्याह - सन्निहिं च न कुव्विज्जा, लेवमायाय संजए। पक्खी पत्तं समायाय, निरवेक्खो परिव्व ॥ १६ ॥ व्याख्या - सम्यग् - एकीभावेन निधीयते - निक्षिप्यतेऽनेनाऽऽत्मा नरकादिष्विति सन्निधिः- प्रातरिदं भविष्यतीत्याद्यभिसन्धितोऽतिरिक्ताशनादिस्थापनं तं च न कुर्वीत, चशब्दः पूर्वापेक्षया समुच्चये, 'लेवमायाय'त्ति लेपः-शकटाक्षादिनिष्पादितः पात्रगतः परिगृह्यते, तस्य मात्रा - मर्यादा, मात्राशब्दस्य मर्यादावाचित्वेनापि रूढत्वात् यथोक्तम्- " ईषदर्थक्रियायोगे, मर्यादायां परिच्छदे । परिमाणे धने चेति, मात्राशब्दः प्रकीर्तितः ॥ १॥” लेपमात्रतया, किमुक्तं भवति १-लेपमेकं मर्यादीकृत्य न खल्पमप्यन्यत् सन्निदधीत, यद्वा परिमाणार्थोऽयं मात्राशब्दः, लक्षणे तृतीया, ततोऽयमर्थः - लेपमात्रयेति यावता पात्रमुपलिप्यते तावत्परिमाणमपि सन्निधिं न कुर्वीत, आस्तां बहुमित्यभिप्रायः, 'संयतो' यतिः, किमित्येवं पात्राद्युपकरणसन्निधिरपि न कर्तव्य इत्याह- 'पक्खि 'त्ति पक्षीव पक्षी, यथा पक्षी For Parana Prato Use Onl ra पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः ~39~
SR No.035036
Book TitleSavruttik Aagam Sootraani 1 Part 36 Uttaradhyayan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy