________________
आगम
(४३)
प्रत
सूत्रांक
॥२४
-२५||
दीप
अनुक्रम [ ४६५
-४६६]
Education
[भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [१४], मूलं [-] / गाथा ||२४-२५|| निर्युक्तिः [३७३...]
सर्वदा सैबैका जन्मरात्रिः स्यात्ततो न द्वितीया मरणरात्रिः कदाचित्प्रादुण्ण्यात्, ताश्चाधर्म कुर्वतो जन्तोरिति गम्यते अफला यान्ति रात्रयः, अधर्मनिबन्धनं च गृहस्थतेत्यायुपोऽनित्यत्वादधर्मकरणे च तस्य निष्फलत्वात्तत्परित्याग एव श्रेयानिति भावः । इत्थं व्यतिरेकद्वारेण प्रव्रज्याप्रतिपत्तिहेतुमभिधाय तमेवान्ययमुखेनाह - 'जा जे त्यादि पूर्ववत्, नवरं 'धम्मं च' ति चशब्दः पुनरर्थे धर्म पुनः कुर्वतः सफला धर्मलक्षणफलोपार्जनतो, न च व्रतप्रतिपत्तिं विना धर्म इत्यतो व्रतं प्रतिपत्स्यावहे इत्यभिप्राय इति सूत्रद्वयार्थः ॥ इत्थं कुमारवचनादाविर्भूतसम्यक्त्वस्तद्वचनमेव पुरस्कुर्वन् भृगुराह—
एमओ संवसित्ता णं, दुहओ संमत्त संजया । पच्छा जाया । गमिस्सामो, भिक्खमाणा कुले कुले ॥ २६ ॥
'एकता' एकस्मिन् स्थाने 'समुष्य' सहैवासित्वा 'दुहतो' त्ति द्वयं च द्वयं च द्वये आवां युवां च, व्यक्त्यपेक्षया बहुवचनं पुरुषप्राधान्याच पुंलिङ्गता, 'सम्यक्त्वसंयुक्ताः' सम्यक्त्वेन तत्त्वरुचिलक्षणेन संयुताः सहिताः उपलक्षणत्वाद्देशविरत्या च 'पश्चाद्' यौवनावस्थोत्तरकालं, कोऽर्थः ? - पश्चिमे वयसि, 'जाती' पुत्रौ ! 'गमिष्यामः' प्रजिष्यामो वयं ग्रामनगरादिषु, मासकल्पादिक्रमेणेति शेषः, अर्थाच प्रत्रज्यां प्रतिपद्य, 'भिक्षमाणाः' याचमानाः, पिण्डादिकमिति गम्यते, क ? - 'कुले कुले' गृहे गृहे न त्वेकस्मिन्नेव वेश्मनि, किमुक्तं भवति ? - अज्ञातोच्छवृत्त्येति सूत्रार्थः ॥ कुमारावाहतुः ---
For Parsons Privat
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~308~