________________
आगम
(४३)
प्रत
सूत्रांक
||&||
दीप
अनुक्रम
[४४७ ]
[भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा ||६|| निर्युक्ति: [३७३...]
अध्ययनं [१४],
| न्धिषु ये चापि 'दिव्याः' देवसम्बन्धिनः कामभोगास्तेषु चेति प्रक्रमः, 'मोक्षाभिकाङ्क्षिणी' मुक्त्यभिलापिणी 'अभिजातश्रद्धौ' उत्पन्नत्तत्त्वरुची 'तातं' पितरमुपागम्य 'इदं वक्ष्यमाणं 'उदाहु' त्ति उदाहरताम् । तयोर्हि साधुदर्शनानन्तरं कास्माभिरित्थंभूतानि रूपाणि पुराऽपि दृष्टानीति चिन्तयतोर्जातिस्मरणमुत्पन्नं, ततो जातवैराग्यौ प्रव्रज्याभिमुखावात्ममुत्कलीकरणाय तयोश्च प्रतिवोधोत्पादनाय वक्ष्यमाणमुक्तवन्ताविति सूत्रार्थः ॥ यच तायुक्तवन्तौ तदाहअसासर्य दड इमं विहारं, बहुअंतरायं न य दीहमा । तम्हा गिर्हसि न रई लभामो, आमंतयामो चरिसामु मोणं ॥ ७ ॥
'अशाश्वतम्' अनित्यं दृष्ट्वा 'इ' प्रत्यक्षं विहरणं विहारं, मनुष्यत्येनावस्थानमित्यर्थः, भण्यते हि "भोगभोगाई भुंजमाणे विहरति "त्ति, किमित्येवमत आह-बहवः प्रभूता अन्तरायाः-विघ्ना व्याध्यादयो यस्य तद्वह्वन्तरायं, बहुतरायमपि दीर्घत्वा (घोडा)वस्थायि स्यादित्याह - 'न च' नैव 'दीर्घ' दीर्घकालस्थिया 'आयुः' जीवितं, सम्प्रति पल्योपमायुष्कताया अप्यभावात् यत एवं सर्वमनित्यं तस्माद् 'गिहंसि 'न्ति 'गृहे' वेश्मनि न 'रतिं' धृतिं 'लभामो 'ति लभावहे - प्रामुयः, अतश्च 'आमन्त्र्यावह' पृच्छाव आयां यथा 'चरिष्यामः' आसेवियावहे 'मौन' मुनिभावं संयममिति सूत्रार्थः ॥ एवं च ताभ्यामुक्ते
For Parana Private On
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~296~