________________
आगम (४३)
प्रत
सूत्रांक
||3||
दीप
अनुक्रम
[ ४०९ ]
Educato
[भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा ||३|| निर्युक्ति: [३५५...]
अध्ययनं [१३],
परिपूर्ण लोकद्वयं जातस्तदाकर्णनात्तस्य चित्तावेशः, निरुद्धश्च तज्जनितमूर्च्छयाऽऽश्वासमार्गो, निमीलितं लोचनयुगलं, लुठितः स आसनात्, निपतितो भुवि, किमेतत् किमेतदित्यादिनाऽऽकुलितः सर्वोऽपि तत्परिच्छदः, दृष्टश्व तेनारघट्टिकः, ताडितः पाणिप्रहारादिभिः, आरटितमेतेन न मयैतत्पूरितं न मयेति, किन्त्वन्येनैव भिक्षुणैतत्कलिकन्दमूलेनेति, अत्रान्तरे लब्धा चेतना, प्राप्तं च स्वास्थ्यं चक्रवर्त्तिना, उक्तं च-कासौ लोकपूरयिताssस्त इति ?, कथितस्तद्व्यतिकरो यथा - केनचिद् भिक्षुणैतत्पूरितं न त्वमुनेति पृष्टं च पुनरनेन हर्षोत्फुल्लनयनयुगलेन-क तसाविति कथितमारघट्टिकेन देव! मदीयवाटिकायां एतच्चाकर्ण्य प्रचलितः सबलवाहनः सकलान्तःपुरसमन्वितश्च तद्दर्शनाय, प्राप्तस्तदुद्यानं, दृष्टो मुनिः, वन्दितः सबहुमानं, उपवेशितश्चैकासने, पप्रच्छतुः परस्परमनामयं कथयामासतुश्च यथाखमनुभूतसुखदुःखफलविपाकं, तत्कथनानन्तरं च वर्णिता निजसमृद्धिश्चक्रवर्त्तिना, प्ररूपितस्त| द्विपाकदर्शनतस्तत्परित्यागश्चित्रयतिना, एतावानेव प्रस्तुताध्ययन सूत्र स्वार्थोऽभिधेय इति सूत्रनिर्युक्तिगाथयोर्भावार्थः । सम्प्रति यदुक्तं - 'सुखदुःखफलविपाकं तौ कथयामासतुरिति, तत्र चक्रवर्त्ती यथा कथयामास तथा संबन्धपुरस्सरमाह
चट्टी महिडीओ, भदत्तो महायसो । भायरं बहुमाणेण, इमं वयणमब्बवी ॥ ४ ॥ आसिमो भायरा दोsवि, अन्नमन्नवसाणुगा । अन्नमन्नमणूरत्ता, अन्नमन्नहिएसिणो ॥ ५ ॥
For Persona Prat
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~266~