________________
आगम
(४३)
प्रत सूत्रांक
||3||
दीप
अनुक्रम [ ४०९ ]
उत्तराध्य.
बृहद्वृत्तिः
॥३८२||
[भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा ||३|| निर्युक्ति: [३५५]
अध्ययनं [१३],
'धर्म' यतिधर्म क्षान्त्यादिकं 'श्रुत्वा' आकर्ण्य 'प्रत्रजितः प्रव्रज्यां प्रतिपन्नवान् इति सूत्रभावार्थः ॥ ततः किमित्याह
कंपिल्लुंमि अनयरे समागया दोऽवि चित्तसंभूया । सुहदुकखफल विवागं कहिंति ते इकमिकस्स ॥ ३ ॥ काम्पिल्ये च नगरे - ब्रह्मदत्तोत्पत्तिस्थाने 'समागतौ' मिलितौ द्वावपि चित्रसंभूतौ जन्मान्तरनामतः 'सुखदुःखफलविपार्क' सुकृतदुष्कृतकर्मानुभवरूपं 'कहति'ति कथयतः स्मेति शेषः, ततश्च कथितवन्तौ तौ चित्रजीवयतिब्रह्मदत्तो 'एकमेकस्स' ति एकैकस्य परस्परमितियावत् इति सूत्राक्षरार्थः ॥ भावार्थस्तु निर्युक्तिकृतोच्यतेजाईइ पगास निवेयणं च जाईपयासणं चित्ते । चित्तस्स य आगमणं इहिपरिचागसुतत्थो ॥ ३५५ ॥
तदा हि ब्रह्मदत्तो जातिस्मरणोपलब्धस्वजातीनां 'दासा दसन्नये आसी' इत्यादिना सार्द्धश्लोकेन जनाय प्रका शनं निवेदनं च य इमं द्वितीयश्लोकं पूरयति तस्मै राज्यार्द्धमहं प्रयच्छामीति विहितवान् ततस्तदर्थिना जनेनोद्धुप्यते, तद् ग्रामनगराकारादिषु पठ्यमानं चाकर्णितं कर्ण्यपकर्ष्या चित्रजीवयतिना, ततस्तथाविधज्ञानातिशयोउपयोगतः स्वजातीरुपलभ्य जातोऽस्याभिप्रायो यथा - गत्वा तं जन्मान्तरनिजभ्रातरं संभूतजीवमववोधयामीति, प्रस्थितस्ततः स्थानात् प्राप्तः क्रमेण काम्पिल्यं, स्थितस्तद्वहिरुद्याने, श्रुतश्वारपट्टिकपरिपठ्यमानः सार्द्धश्लोकः, पूरितश्चानेन द्वितीयश्लोकः, अवधारितश्चारघट्टिकेन, धावितवासी नृपसकाशं राज्यलोमेन, पठितं चैतेन तत्पुरतः,
Education intematonal
For Parana Prat
चित्रसंभू
तीयाध्य
१३
~265~
॥ ३८२॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः