________________
आगम (४३)
[भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१३], मूलं [-] / गाथा ||२|| नियुक्ति: [३४४-३५४]
प्रत
सूत्रांक
||२||
प्रत्यन्तराजानः, समुत्पन्नं चक्ररत्नं, प्रारब्धस्तदुपदर्शितमार्गेण दिग्विजयः, प्राप्तः काम्पिल्ये, निर्गतस्तदभिमुखं दीर्घपृष्ठो, लग्नमनयोरायोधनं, विनिपातितोऽसौ ब्रह्मदत्तेन, एवं च बोद्धव्यस्तस्य दीर्घपृष्ठविषयरोपमोक्षश्च, अत्रान्तरे मिलिताः परिणीतकन्यापितरः, समुत्पन्नानि च यथाऽवसरं शेषरत्नानि, साधितं षट्रखण्डमपि भरतं, प्राप्ताश्च नवापिर निधयः, परिणतं चक्रवर्तिपदं, एवं च सुकृतफलमुपभुञ्जतोऽतिक्रान्तः कियानपि कालः, अन्यदा चोपनीतं देवतया मन्दारदाम, समुत्पन्नं तद्दर्शनादस्य जातिस्मरणं-अनुभूतानि मयैवंविधकुसुमदामानि, अहं हि नलिनगुल्मवि-2 माने देवोऽभवं ॥ इत्येकादशनियुक्तिगाथार्थः । इत्थं तावत्काम्पिल्ये संभूतश्चक्रवर्ती जातः, चित्रस्य तु का वार्तेत्याह
चित्तो पुण जाओं पुरिमतालंमि । सिट्टिकुलंमि विसाले धम्म सोऊण पञ्चइओ॥२॥ पादत्रय, चित्रः पुनर्जातः पुरिमताले, स हि चित्रनामा महर्षिः तत्र संभूतिनाम्नि भ्रातरि तथाऽनशनं प्रतिपन्नवत्यहो दुरन्तो मोहश्चित्रा कर्मपरिणतिश्चञ्चलं चित्तमित्यादि विचिन्त्य चतुर्विधमप्याहारं प्रत्याख्यातवान् , मृत्वा च पण्डितमरणेन समुत्पन्नस्तत्रैव नलिनगुल्मनाम्नि विमाने, ततस्तत्र खस्थितिमनुपाल्योत्पन्नः पुरिमतालपुरे, तत्रापि केत्याह-'श्रेष्टिकुले' वणिकप्रधानान्वये 'विशाले' विस्तीर्णे पुत्रपौत्रादिवृद्धिमति, प्रासवयाश्च तथाविधस्थविरसन्निधौ ।
दीप अनुक्रम [४०८]
Faramaarwatatuwant
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~264~