SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३६] “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [११], मूलं [-] / गाथा ||२३|| नियुक्ति: [३१७] प्रत सूत्रांक ||२३|| वतीति वज्रपाणिः, पूश्च शरीरमप्युच्यते, तद्विकृष्टतपोऽनुष्ठानतो दारयतीव दारयतीति पुरन्दरः, शक्रवत् देवैरपि धर्मेऽत्यन्तनिश्चलतया पूज्यते इति तत्पतिरप्युच्यते, तथा चाह-"देवावि तं नमसंति, जस्स धम्मे सया मणो"चि सूत्रार्थः ।। अपि च जहा से तिमिरविद्धंसे, उत्तिट्ठति दिवागरे । जलते इव तेएणं, एवं भवइ बहुस्सुए ॥ २४ ॥ व्याख्या-यथा सः तिमिरम्-अन्धकारं विध्वंसयति-अपनयति तिमिरविध्वंसः, 'उत्तिष्ठन्' उद्गच्छन् 'दिवाकरः' है। सूर्यः, स हि ऊर्य नभोभागमाक्रामन्नतितेजसितां भजते अवतरंस्तु न तथेत्येवं विशिष्यते, यद्वा उत्थानं-प्रथम मुद्गमनं तत्र चायं न तीन इति तीवत्वाभावख्यापकमेतत् , अन्यदा हि तीनोऽयमिति न सम्यग् दृष्टान्तः स्यात्, 'ज्वलन्निव' ज्याला मुश्चन्निव 'तेजसा महसा, एवं भवति बहुश्रुतः, सोऽपि यज्ञानरूपतिमिरापहारकः संयमस्थानेषु विशुद्धविशुद्धतराध्यवसायत उपसर्पस्तपस्तेजसा च ज्वलन्निव भवतीति सूत्रार्थः ॥ अन्यच्च जहा से उडुबई चंदे, नक्वत्तपरिवारिए । पडिपुण्णे पुण्णिमासीए, एवं भवइ बहुस्सुए ॥ २५ ॥ व्याख्या-यथा सः उडूनां-नक्षत्राणां पतिः-प्रभुः उडुपतिः, क इत्याह-'चन्द्रः' शशी, 'नक्षत्रैः' अश्विन्यादिभिः, उपलक्षणत्वाद्हैस्ताराभिश्च परिवारः-परिकरः सातोऽस्येति परिवारितः नक्षत्रपरिवारितः 'प्रतिपूर्णः | १ देवा अपि तं नमस्यन्ति यस्य धर्मे सदा मनः । दीप अनुक्रम [३५१] SamEaicatm totamarhand For Prato पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~ 202~
SR No.035036
Book TitleSavruttik Aagam Sootraani 1 Part 36 Uttaradhyayan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy