________________
आगम (४३)
[भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [११], मूलं [-] / गाथा ||२०|| नियुक्ति: [३१७]
प्रत सूत्रांक ||२०||
नयेः प्रतिभादिगुणोदप्रतया च दुरभिभवः इत्यन्यतीर्थानां मृगस्थानीयानां प्रवर एवेति सूत्रार्थः ॥ अपरं च
जहा से वासुदेवे, संखचक्रगदाधरे । अप्पडिहयबले जोहे, एवं भवइ बहुस्सुए ॥२१॥ व्याख्या-यथा स 'वासुदेवः' विष्णुः, शङ्खश्च-पाञ्चजन्यः चक्रं च-सुदर्शनं गदा च-कौमोदकी शङ्खचक्रगदास्ताधारयति-वहतीति शङ्खचक्रगदाधरः, अप्रतिहतम्-अन्यैः स्खलयितुमशक्यं बलं-सामर्थ्यमस्खेत्यप्रतिहतबलः, किमुक्त भवति -एकं सहजसामर्थ्यवानन्यच्च तथाविधायोधान्वित इति, युध्यतीति योधः-सुभटो भवति, एवं भवति बहु-12 श्रुतः, सोऽपि ोकं खाभाविकप्रतिभाप्रागल्भ्यवान् अपरं शङ्खचक्रगदाभिरिव सम्यग्दर्शनज्ञानचारित्रैरुपेत इति, योध इव योधः कर्मवेरिपराभवं प्रतीति सूत्रार्थः ॥ अपरं-
. जहा से चाउरते, चक्कवट्टी महिहिए । चोदसरयणाहिवई, एवं हवइ बहुस्सुए ॥२२॥ व्याख्या-यथा स चतसृष्यपि दिक्ष्वन्तः-पर्यन्त एकत्र हिमवानन्यत्र च दिक्त्रये समुद्रः खसम्बन्धितयाऽस्पेतिर चतुरन्तः, चतुर्भिवा-हयगजरथनरात्मकैरन्तः-शत्रुविनाशात्मको यस्य स तथा, 'चक्रवर्ती' षट्खण्डभरताधिपः, महती ऋद्धिः-समृद्धिरस्पति महर्द्धिकः-दिव्यानुकारिलक्ष्मीकः, चतुर्दश च तानि रत्नानि च चतुर्दशरत्नानि, तानि । | चामूनि-सेणावइ गाहावइ पुरोहिय गय तुरंग बहइग इत्थी । चकं छत्तं चम्म मणि कागिणी खग्ग दंडो य ॥१॥
१ सेनापतिः गाथापतिः पुरोहितो गजस्तुरङ्गो वर्धकिः स्त्री। चक्रं छत्रं चर्म मणिः काकिणी खगो दण्डश्च ।। १ ।।
दीप अनुक्रम [३४७]]
Samtailstonia
For
Prato
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~200