________________
आगम
(४३)
प्रत
सूत्रांक
||१८||
दीप
अनुक्रम
[ ३४५]
उत्तराध्य.
बृहद्वृत्तिः
॥३४९॥
[भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) निर्युक्ति: [३१७]
अध्ययनं [११],
मूलं [-] / गाथा ||१८||
सिक्यादिबुद्धिभिर्विद्यामिश्च विविधाभिर्वृतः षष्टिहायनतया चात्यन्तस्थिरमतिः, अत एव च बलवस्वेनाप्रतिहतो भवति, दर्शनोपहन्तृभिर्बहुभिरपि न प्रतिहन्तुं शक्यत इति सूत्रार्थः ॥ अन्यथ
जहा से तिक्खसिंगे, जायक्खंधे विराय । वसभे जूहाहिबती, एवं भवति बहुस्सु ॥ १९ ॥ व्याख्या- यथा स तीक्ष्णे निशिताग्रे शृङ्गे - विषाणे यस्य स तथा जातः - अत्यन्तोपचितीभूतः स्कन्धः - प्रतीत एवास्येति जातस्कन्धः, समस्ताङ्गोपाङ्गोपचितत्वोपलक्षणं चैतत्, तदुपचये हि शेषाङ्गान्युपचितान्येवास्य भवन्ति, 'विराजते' विशेषेण राजते-शोभते 'वृषभः' प्रतीतो, यूथस्य- गवां समूहस्याधिपतिः - खामी यूथाधिपतिः सन्, एवं भवति बहुश्रुतः, सोऽपि हि परपक्षभेतृतया तीक्ष्णाभ्यां खशास्त्र परशास्त्राभ्यां शृङ्गाभ्यामिवोपलक्षितः गच्छगुरुकार्यधुराधरणधीरेयतया च जातस्कन्ध इव जातस्कन्धः, अत एव च यूथस्य - साध्वादिसमूहस्याधिपतिः - आचार्यपदवीं गतः सन् विराजते इति सूत्रार्थः ॥ अन्यच
जहा से तिक्खदाढे, ओदग्गे दुष्पहंसए। सीहे मियाण पवरे, एवं भवइ बहुस्सु ॥ २० ॥ व्याख्या- यथा स तीक्ष्णाः- निशिता दंष्ट्राः प्रतीता एव यस्य स तीक्ष्णदंष्ट्रः, 'उदयः' उत्कट उदग्रवयः स्थितत्वेन वा उदग्रः, अत एव 'दुप्पहंसए' ति दुष्प्रधर्ष एव दुष्प्रधर्षकः - अन्यैर्दुरभिभवः 'सिंह' केशरी 'मृगाणाम्' आरण्यप्राणिनां 'प्रवरः' प्रधानो भवति, एवं भवति बहुश्रुतः, अयमपि हि परपक्षभेतृतया तीक्ष्णदंष्ट्राभिरिव नैगमादि
For Parana Prat
बहुश्रुतपू
जाध्ययनं
११
~ 199~
॥३४९॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः