________________
आगम (13)
[भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१९], मूलं [-] / गाथा ||६-१३|| नियुक्ति: [३१७]
प्रत सूत्रांक ||६-१३||
हस्तादिभिः भाषाचपलः-असदसभ्यासमीक्ष्यादेशकालालापिभेदाच्चतुर्द्धा, तत्र असद्-अविद्यमानमसभ्यं-खरपरुषा-1 दि असमीक्ष्य-अनालोच्य प्रलपन्तीत्येवंशीला असदसभ्यासमीक्ष्यअलापिनस्त्रयः, अदेशकालप्रलापी चतुर्थः अतीते कार्य यो वक्ति-यदिदं तत्र देशे काले वाऽकरिष्यत् ततः सुन्दरमभविष्यद्, भावचपलः सूत्रेऽर्थे वाऽसमाप्त एवं योऽन्यद् गृह्णाति, 'अमायी' न मनोज्ञमाहारादिकमवाप्य गुर्वादिवञ्चकः, 'अकुतूहलः' न कुहुकेन्द्रजालाद्यवलोकन-1 | परः, 'अल्पं च' इति स्तोकमेव 'अधिक्षिपति' तिरस्कुरुते, किमुक्तं भवति ?-नाधिक्षिपत्येव तावदसौ कश्चन, अधि-13 क्षिपन् वा कञ्चन कङ्क?करूपं धर्म प्रति प्रेरयन्नल्पमेवाधिक्षिपति, अभाववचनो वाऽल्पशब्दः, तथा च वृद्धाः“अल्पशब्दो हि स्तोकेऽभावे च", ततो नैव कञ्चनाधिक्षिपति, 'प्रबन्ध' चोक्तरूपं न करोति, 'मित्रीय्यमाणः | उक्तन्यायेन 'भजते' मित्रीयितारमुपकुरुते, न तु प्रत्युपकारं प्रत्यसमर्थः कृतघ्नो वा, श्रुतं लब्ध्वा न माधति, किन्तु । मददोषपरिज्ञानतः सुतरामवनमति, 'न च' नैव 'पापपरिक्षेपी' उक्तरूपः, न च मित्रेभ्यः कृतज्ञतया कथश्चिदप-1
राधेऽपि कुप्यति, अप्रियस्यापि मित्रस्य रहसि 'कल्लाण'त्ति कल्याणं भापते, इदमुक्तं भवति-मित्रमिति यः प्रति-11 8/पन्नः स यद्यप्यपकृतिशतानि विधत्ते तथाऽप्येकमपि सुकृतमनुस्मरन् न रहस्यपि तहोपमुदीरयति, तथा चाह-1
"एकसुकृतेन दुष्कृतशतानि ये नाशयन्ति ते धन्याः। न त्वेकदोपजनितो येषां कापः स च कृतघ्नः॥१॥" इति, कलहश्व-वाचिको विग्रहः डमरं च-प्राणिघातादिभिस्तहर्जको, 'बुद्धो' बुद्धिमान् , एतच सर्वत्रानुगम्यत एवेति ।
दीप
अनुक्रम [३३३-३४०
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~194