SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [११], मूलं [-] / गाथा ||६-१३|| नियुक्ति: [३१७] (४३) बहुश्रुतपू. जाध्यवनं. बृहद्वृत्तिः प्रत सूत्रांक ||६-१३|| उत्तराध्य. न प्रकृतसङ्ख्याविरोधः, 'अभिजातिए'त्ति अभिजातिः-कुलीनता ता गच्छति-उत्क्षिप्तभारनिर्वाहणादिनेत्यभि- जातिगः, ही:-लज्जा सा विद्यतेऽस्य ह्रीमान् , कथञ्चित् कलुषाध्यबसायतायामप्यकार्यमाचरन् लजते, 'प्रतिसंलीन गुरुसकाशेऽन्यत्र वा कार्य विना न यतस्ततश्चेष्टते, प्रस्तुतमुपसंहरन्नाह-'सुबिनीतः' सुविनीतशब्दवाच्यः 'इति ॥३४७॥ इत्येवंविधगुणान्वितः उच्यते, इति सूत्राष्टकार्थः । यश्चैवं विनीतः स कीटक स्यादित्याह वसे गुरुकुले निर्व, जोगवं उवहाणवं । पियंकरे पियवाई, से सिक्ख लडुमरिहति ॥ १४ ॥ व्याख्या-वसेत् आसीत क?-गुरूणाम्-आचार्यादीनां कुलम्-अन्वयो गच्छ इत्यर्थः गुरुकुलं तत्र, तदाज्ञोपललक्षणं च कुलग्रहणं, 'नित्यं' सदा, किमुक्तं भवति?-यावजीवमपि गुर्वाज्ञायामेव तिष्ठेत् , उक्तं हि-"णाशास्स होइ भागी"|3 इत्यादि, योजनं योगो-व्यापारः, स चेह प्रक्रमाद्धर्मगत एव तद्वान् , अतिशायने मतुप, यद्वा योगः-समाधिः सोड४ सास्तीति योगवान् , प्रशंसायां मतुप, उपधानम्-अङ्गानाध्ययनादौ यथायोगमाचाम्लादितपोविशेषस्तद्वान्, यद्यस्योपधानमुक्तं न तत् कृच्छभीरुतयोत्सृज्यान्यथा वाऽधीते शृणोति वा, प्रियम्-अनुकूलं करोतीति प्रियङ्करः, कश्चित् केनचिदपकृतोऽपि न तत्प्रतिकूलमाचरति, किन्तु ममैव कर्मणामयं दोष इत्यवधारयन्नप्रियकारिण्यपि प्रिय- मेव चेष्टते, अत एव च 'पियंवाईत्ति केनचिदप्रियमुक्तोऽपि प्रियमेव वदतीत्येवंशीलः प्रियवादी, यद्वा-'प्रियङ्करः' १ज्ञानस्य भवति भागी। (विरपरको ईसणे चरित्ते य । धण्णा आवकहाए गुरुकुलवासं न मुंचंति ॥ १॥) दीप अनुक्रम [३३३-३४० ॥३४७॥ For Prato पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~195
SR No.035036
Book TitleSavruttik Aagam Sootraani 1 Part 36 Uttaradhyayan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy