________________
आगम
[भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [१०], मूलं [--1 / गाथा ||५-१४|| नियुक्ति: [३०९...]
(४३)
प्रत
सूत्रांक
||५-१४||
तथा वनस्पतिसूत्रं च, नवरं कालमनन्तमिति, अनन्तकायिकापेक्षमेतत् , प्रत्येकवनस्पतीनां कायस्थितेरसङ्ख्यातत्वात.. तथा दुष्टोऽन्तोऽस्पेति दुरन्तस्तम् , इदमपि साधारणापेक्षयैव, ते खत्यन्ताल्पबोधतया तत उद्धृता अपिन प्रायो विशिष्ट |मानुपादिभवमोमुवन्ति। इह च 'कालं सङ्खयातीत मिति विशेषानभिधानेऽप्यसङ्ख्योत्सर्पिण्यवसर्पिणीमानम् , 'अनन्त-' मिति चानन्तोत्सर्पिण्यवसर्पिणीप्रमाणमित्यवगन्तव्यं, यत आगमः-"अस्संखोसप्पिणिउस्सप्पिणीउएगेंदियाण उचउहं । ता चेव ऊ अणंता वणस्सतीए उ बोद्धबा ॥ १॥" तथा द्वे-द्विसङ्खये इन्द्रिये-स्पर्शनरसनाख्ये येषां ते द्वीन्द्रियाः-कृम्यादयः,तत्कायमतिगत उत्कर्षतो जीवस्तु संवसेत् कालं सङ्खयेयसभूजित-सङ्ख्यातवर्षसहस्रात्मकम् , अतः समयमपि गौतम ! मा प्रमादीः।। एवं त्रीन्द्रियचतुरिन्द्रियसूत्रे अपि भावनीये ॥ तथा पञ्च इन्द्रियाणि-स्पर्शनादीनि येषां ते तथा, ते चोत्तरत्र देवनारकयोरभिधानात् मनुष्यत्वस्य दुर्लभत्वेन प्रक्रान्तत्वात्तिर्यश्च एव गृह्यन्ते, तत्कायमतिगतः, तत्कायोत्पन्न इत्यर्थः, उत्कर्षतो जीवस्तु संवसेत् सप्त वा अष्ट वा सप्लाष्टानि तानि च तानि भवग्रहणानि च-जन्मोपादानानि सप्ताष्टभवग्रहणानि यतः अतः समयमपि गौतम ! मा प्रमादीः। तथा देवान्नैरयिकांश्च । अतिगत उत्कर्षतो जीवस्तु संवसेत् एकैकमवग्रहणं, ततः परमवश्यं नरेषु तिर्यक्षु वोत्पादात् । यद्वा 'उकोसति उत्कृष्यते तदन्येभ्य इत्युत्कर्षस्तमुत्कृष्टं कालं-त्रयस्त्रिंशत्सागरोपममानम् , 'एगेगभवग्गहणं'ति अपेर्गम्यमानत्वादेकै
दीप अनुक्रम [२९५-३०४
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~172