________________
आगम (४३)
[भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [१०], मूलं [-] / गाथा ||३|| नियुक्ति: [३०९...]
प्रत सूत्रांक ||३||
४/प्यते, 'एवम्' इत्युक्तसरशं 'मनुजानां मनुष्याणां, मनुजग्रहणं च प्राग्वत् , 'जीविय'ति जीवितं, यत एवं ततः समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ अमुमेवार्थमुपसंहरन्नुपदेशमाह
इइ इत्तरियंमि आउए, जीवितए बहुपञ्चवायए । विहुणाहि रयं पुराकडं, समयं ॥३॥ व्याख्या-'इति' इत्युक्तन्यायेन 'इत्वरे' अयनशीले, कोऽर्थः?-खल्पकालभाविनि, एति-उपक्रमहेतुभिः अनपव-14 यतया यथास्थित्यैवानुभवनीयतां गच्छतीति आयुः, तश्चैवं निरुपक्रममेव तस्मिन् , तथाऽनुकम्पितं जीवितं । जीवितकं चशब्दस्य गम्यमानत्वात् तस्मिंश्च, अर्थात् सोपक्रमायुषि, बहवः-प्रभूताः प्रत्यपाया-उपधातहेतवोऽध्यवसाननिमित्तादयो यस्मिंस्तत्तथा, अनेन चानुकम्प्यताहेतुराविष्कृतः, एवं चोक्तरूपद्रुमपत्रोदाहरणतः कुशाग्रजलबिन्दूदाहरणतश्च मनुजायुर्निरुपक्रम सोपक्रमं चेत्वरम् , अतोऽस्यानित्यतां मत्वा विधुनीहि' जीवात् पृथक् कुरु । रजः' कर्म 'पुरेकर्डति' पुरा-पूर्व तत्कालापेक्षया कृतं-विहितं, तद्विधुयनोपायमाह-समयमपि गौतम ! मा प्रमादी, पठन्ति च-एवं मणुयाण जीविए एत्तिरिए बहुपचवायए'त्ति सुगममेवेति सूत्रार्थः ॥ स्यात्-पुनर्मनुष्यभवावाप्ताबुद्यस्याम इत्याह
दुलहे खलु माणुसे भवे, चिरकालेणवि सध्वपाणिणं । गाढा य विवाग कम्मुणो, समय० ॥ ४॥ व्याख्या-'दुलेभों' दुरवापः, 'खलुः' विशेषणे, अकृतसुकृतानामिति विशेष द्योतयति, 'मानुषो' मनुष्यसम्बन्धी
--
दीप अनुक्रम [२९३]
+
SamEducatmintamation
For
Pro
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~170~