________________
आगम
(४३)
प्रत
सूत्रांक
||33
-३६||
दीप
अनुक्रम [२६१
-२६२]
[भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [९], मूलं [-] / गाथा ||३३-३६|| निर्युक्ति: [२७९...]
शतसहस्रजयात् 'परमः प्रकृष्टः 'जयः' परेषामभिभवः, तदनेनाऽऽत्मन एवातिदुर्जयत्वमुक्तं, तथा च- 'अप्पाणमेवत्ति तृतीयार्थे द्वितीया, ततश्चाऽऽत्मनैव सह 'युध्यस्व' सङ्ग्रामं कुरु, यद्वा युद्धेरन्तर्भावितण्यर्थत्वात् युध्यखेति योधयस्व, कम् ? - आत्मानं, इहाप्यात्मनैव सहेति शेषः, किं ?, न किञ्चिदित्यर्थः, 'ते' तब 'युद्धेन' सङ्ग्रामेण 'बाह्यत' इति वा पार्थिवादिकमाश्रित्य यदिवा बाह्यत इति तृतीयार्थे तसिः, ततो वाह्येन युद्धेनेति सम्बध्यते, एवं च 'अप्पाणमेव 'त्ति आत्मनैवान्यव्यतिरिक्तेनाऽऽत्मानं स्वं 'जइत्त'ति जिल्ला 'सुखम्' ऐकान्तिकात्यन्तिकमुक्तिसुखात्मकम् 'एधते' इत्यनेकार्थत्वाद्धातूनां प्राप्नोति, अथवा 'सुहमे हए' त्ति शुभं - पुण्यमेधते - अन्तर्भावितण्यर्थत्वात् वृद्धिं नियति । कथमात्मन्येव जिते सुखावा सिरित्याह- 'पञ्चेन्द्रियाणि' श्रोत्रादीनि 'क्रोधः' कोपः 'मानः' अहङ्कारः 'माया' निकृतिः तथैव 'लोभव' गार्द्धलक्षणः 'दुर्जयः' दुरभिभवः, 'चः' समुचये, 'एव' इति पूरणे, अतति - सततं गच्छति तानि तान्यध्यवसायस्थानान्तराणीति व्युत्पत्तेः आत्मा- मनः, सर्वत्र च सूत्रत्वात् नपा निर्देशः, 'सर्वम्' अशेषमिन्द्रियादि उपलक्षणत्वान्मिथ्यात्वादि च, 'आत्मनि' जीवे 'जिते' अभिभूते 'जित' मिति अभिभूतमेव । ननु मनसि जिते | जितान्येवेन्द्रियादीनीति किं पृथक तजयाभिधानेन ?, सत्यं, तथापि प्रत्येकं दुर्जयत्वख्यापनाय पृथगुपन्यास इत्यदोषः, यद्वा- 'दुज्जयं चेव अप्पाणं'ति चकारो हेत्वर्थः, 'एवः' अवधारणे भिन्नक्रमच आत्मशब्दादनन्तरं द्रष्टव्यः, १ नपुंसकत्वेनेत्यर्थः
Education intemational
For Parsons Privat
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~128~