________________
आगम (४३)
[भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [९], मूलं [-] / गाथा ||१|| नियुक्ति: [२७४-२७९]
प्रत सूत्रांक
द इत्यवसितो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रालापकनिष्पन्नस्यावसरः, स च सूत्रे सति भवतीति सूत्रानुगमे सूत्रमुचारणीयं, तचेदम्
चहऊण देवलोगाओ उववन्नो माणुसंमि लोगंमि । उपसंतमोहणिजो सरती पोराणियं जाई ॥१॥ त व्याख्या-युवा 'देवलोकात्' प्रतीतात् , 'उत्पन्नः जातः 'मानुषे' मानुषसम्बन्धिनि 'लोके' प्राणिगणे उप
शान्तम्-अनुदयं प्राप्तं मोहनीयं-दर्शनमोहमीयं यस्यासावुपशान्तमोहनीयः ‘स्मरति चिन्तयति, स्मेति शेषः, वर्तमाननिर्देशो वा प्राग्वत् , कामित्याह-पोराणिय'ति पुराणामेव पौराणिकी, विनयादित्वात् ठक्, चिरन्तनीमित्यर्थः, 'जातिम्' उत्पत्ति, देवलोकादाविति प्रक्रमः, तद्गतसकलचेष्टोपलक्षणं घेह जातिरिति सूत्रार्थः । ततः४ किमित्याह
जाई सरितु भयवं सहसंबुद्धो अणुत्तरे धम्मे । पुसं ठवित्तु रज्जे अभिनिक्खमति नमी राया ॥२॥ व्याख्या-'जातिम्' उक्तरूपां स्मृत्वा, भगशब्दो यद्यपि धैर्यादिष्वनेकेषु अर्थेषु वर्तते, यदुक्तं-"धैर्यसौभाग्यमा-18 हात्म्ययशोऽर्कश्रुतधीश्रियः । तपोऽर्थोपस्थपुण्येशप्रयत्नतनवो भगाः॥१॥” इति, तथापीह प्रस्तावाद्बुद्धिवचन एव गृह्यते, ततो भगो-बुद्धिर्यस्यास्तीति भगवान् , सहत्ति-खयमात्मनैव सम्बुद्धः-सम्यगवगततत्त्वः सहसम्बुद्धो, ॥ नान्येन प्रतियोधित इत्यर्थः, अथवा 'सहसत्ति आपत्वात् सहसा-जातिस्मृत्यनन्तरं झगित्येव बुद्धः, केत्याह
दीप अनुक्रम [२२९]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~112~