________________
आगम
(४३)
प्रत
सूत्रांक
||२०||
दीप
अनुक्रम
[૨૨૮]
उत्तराध्य.
वृत्तिः
॥२०५॥
[भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा || २०...|| निर्युक्तिः [२७४-२७९]
अध्ययनं [९],
अनेकार्थत्वादङ्गीकुरुते वा, वर्तमाननिर्देशः प्राग्वत्, यद्वा 'समिखति समैक्षिष्ट समीक्षितवान् 'धर्म' यतिधर्म । यदा 'ते' त्वया 'पैतृके' पितुरागते राज्ये कृता-विहिताः कृत्यानि कुर्वन्ति - अनुतिष्ठन्ति कृत्यकरा - नियोगिनो बहवः - प्रभूताः, तदैव कृत्यकरत्वं स्वयं तय कर्तुमुचितमासीदित्युपस्कारः, 'तेषामिति कृत्यकराणां कृत्यं - परापराधप(रिभावनादि कर्तव्यं 'परित्यज्य' प्रताङ्गीकारादपहाय अद्य 'कृत्यकरो' नियुक्तकः - अन्यदोषचिन्तको 'भवान्' त्वं, कि मिति जात इति शेषः । तथा 'मोक्खाय घडसी'ति प्राकृतत्वान्मोक्षाय - मोक्षार्थं 'घटते' चेष्टते, तथा 'अत्तणिस्सेसकारए' त्ति आत्मनो निःशेषमिति - शेषाभावं प्रक्रमात् कर्मणः करोति - विधत्त इत्यात्मनिःशेषकारकः, यद्वा 'णिस्सेस' त्ति निःश्रेयसो मोक्षस्तत्कारको । 'मोक्षमार्ग' मुक्तयध्वानं 'प्रतिपन्नेषु' अङ्गीकृतवत्सु साधुषु ब्रह्मचारिषु 'अहियत्थं' ति अहितार्थ 'निवारयन्' निषेधयन् 'न दोपं' परापवादलक्षणमस्येति शेषः, 'वक्तुम्' अभिधातुमर्हसि यथा हि भवान् अहितान्निवारयन् कथं गर्हसीत्यादि, एवं नमिरपि अद्य कृत्यकरो भवानिति कृत्यकरत्वलक्षणादहितान्निवारयति, तथा दुर्मुखोऽपि सञ्चयं किं करोषि ? इति सञ्चयत एवाहितान्निषेधयतीति नायं परापवाद इति वक्तुमुचितं यद्वा'अहियत्थं णिवारिंतो 'ति सुब्व्यत्ययादहितार्थान्निवारयन्तं न 'दोष'मिति मतुलोपान्न दोषवन्तं वक्तुमर्हसि तथा चार्षम् - "रूसक वा परो मा वा, बिसं वा परियत्तउ । भासियब्बा हिया भासा, सपक्खगुणकारिया ॥१॥"
an Education intemational
For Pan Private Onl
नमिप्रत्र
ज्याध्य. ९
~111~
॥ ३०५ ॥
janor
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः