________________
आगम
(४३)
प्रत
सूत्रांक
||||
दीप
अनुक्रम
[3]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा || १ || निर्युक्ति: [६२]
अध्ययनं [१],
उत्तराध्य.
बृहद्वृत्तिः
॥ ४३ ॥
विधाय निर्णाश्येतियावत् किमित्याह - विप्रमुक्ताः श्रुतत्वादनन्तरोक्तसम्बन्धनसंयोगादेव के ते ? - 'साधवः' अनगाराः, येनैवं तेन किमित्याह- मुक्ताः 'ततः' संसारात्, तद्धेतुकत्वात्तस्य, 'तेन' हेतुना, अनेन च गाथापश्चाधन सम्बन्धच्छेदनलक्षणेन प्रकारेण विप्रमुक्ता भवन्ति तेषां च फलं मुक्तिरित्यर्थत उक्तं भवति । यच्च विप्रमुक्तस्येत्येक९ त्वप्रक्रमेऽपि विप्रमुक्ता इतीह बहुवचनं तदेवंविधभिक्षोः पूज्यत्यख्यापनार्थमिति गाथार्थः ॥ ६२ ॥ एवं 'संजोगे निक्खेबो' इत्यादिमूलगा थोपक्षिप्तसंयुक्तकसंयोगेतरेतरसंयोगभेदतो द्विविधं द्रव्यसंयोगं निरूप्य तत्र संयुक्तकसंयोगं सचित्तादिभेदतस्त्रिविधम् इतरेतरसंयोगं तु परमाणुप्रदेशाभिप्रेतानभिप्रेताभिलापसम्बन्धनविधानतः षडि धमभिधाय सम्बन्धनसंयोग एव च साक्षात् कर्मसम्बन्धनिबन्धनतया संसारहेतुरिति तत्याज्यतां च सम्प्रति तत्प्रतिपादनत एवान्यदुक्तप्रायमिति मन्वानः क्षेत्रादिनिक्षेपम विशिष्टमतिदेष्टुमाहसंबंधणसंजोगे खित्ताईणं विभास जा भणिया । खित्ताइसु संजोगो सो चेव विभासियो अ ( उ ) ॥ ६३ ॥
व्याख्या --- सम्बन्धनसंयोगे क्षेत्रादीनाम्, आदिशब्दात् कालभावपरिग्रहः, विविधा - आदेशानादेशादिभेदादनेकभेदा भाषा विभाषा, या इति प्रस्तुतपरामर्शः, 'भणिता' अभिहिता, 'क्षेत्रादिषु' क्षेत्रादिविषयः संयोगः प्रथमद्वार- ७ ॥ ४३ ॥ गाथासूचितः, स चैव विभाषितव्यः, 'तुः' पूरणे, संयोगत्वं चात्र विभाषाया वचनरूपत्वाद्वचनपर्यायाणां कथञ्चिद्वाच्यादभेदख्यापनार्थमुक्तं, ततोऽयमर्थः सम्बन्धनसंयोगविषयक्षेत्रादिविभाषायां यत्संयोगखरूपमुक्तम्, इहापि
Education Inational
Forts at Use Only
अध्ययनम्
१
~97~
www.ncbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः