________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-]/गाथा ||१||
नियुक्ति: [६१]
प्रत
सूत्रांक ||१||
संयोगस्तु तथाऽन्यथा च, तत्र परमाणुसंयोगस्तथा प्रदेशादिसंयोगस्तु प्रायोऽन्यथेति युक्त एव तयोर्भेदः, एवं तह परमाणुसंयोगस्य संयुक्तकसंयोगादभेदोऽस्तूभयोरपि एकस्कन्धताऽऽपन्नद्रव्यविषयत्वात् , अयमपि न दोपः, यतो निष्पाद्यमानविषय इतरेतरसंयोगः, परिमण्डलादिसंस्थितद्रव्यस्य तेनैव (वि)निष्पाद्यमानत्वात् , संयुक्तसंयोगस्तु प्रायो निष्पन्नद्रव्यविषयः, निष्पन्नं हि मूलादिरूपेण वृक्षादिद्रव्यं कन्दादिना युज्यते, इत्यस्यनयोर्विशेष इति गाथार्थः । ॥६१॥ इत्थं सम्बन्धनसंयोगः स्वरूपत उक्तः, सम्प्रति तस्यैव फलतः प्ररूपणापूर्वकं विप्रमुक्तस्येति प्रकृतसूत्रपद व्याख्यानयन् यथा ततो विषमुक्ता भवन्ति यच तेषां फलं तदाह
संबंधणसंजोगो संसाराओ अणुत्तरणवासो । तं छित्तु विप्पमुक्का माइपिइसुआइ ये हवंति ॥ ६॥ | व्याख्या-सम्बन्धनसंयोगः' उक्तरूपः, संसरन्यस्मिन् कर्मवशवर्तिजन्तष इति संसारस्तस्मात् , न विद्यते उत्तरणं । -पारगमनमस्मिन् सतीत्यनुत्तरणः, स चासी वासश्च-अवस्थानमनुचरणवासः, अनुत्तरणवासहेतुत्वादायुघृतमित्यादिबदनुत्तरणवासः, अथवा 'अनुत्तरणवासो'त्ति आत्मनः पारतत्र्यहेतुतया पाशवत् पाशः, ततोऽनुत्तरणचासौ पाशश्च अनुत्तरणपाशः, उभयत्र च सापेक्षत्वेऽपि गमकत्वात् समासः, अनेन संसाराबस्थितिः पारवश्य वा सम्बन्धनसंयोगस्वार्थतः फलमुक्तं, 'तम्' एवंविधं सम्बन्धनसंयोगम् , अर्घादौदयिकभावविपर्य मात्रादिविषयं च 'छित्त्वा' द्विधा १ टीका-साहू मुका तओ तेणं ।
दीप
अनुक्रम
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~96~