SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३५] “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-]/ गाथा ||२|| नियुक्ति: [६३] प्रत सूत्रांक ||२|| तदेव वक्तव्यं, चकारखानुक्कसमुचयार्थत्वात् , संयुक्तकसंयोगः सम्भवन्त इतरेतरसंयोगशेषभेदाश्च वाच्याः, तत्र क्षेत्रस्य संयुक्तकसंयोगो यथा-जम्बूद्वीपः खप्रदेशसंयुक्तक एवं लवणसमुद्रेण युज्यते, इतरेतरसंयोगः क्षेत्रप्रदेशानामेव परस्परं धर्मास्तिकायादिप्रदेश संयोगः, एवं कालभावयोरपि नेयमिति गाथार्थः ॥ ६३ ॥ इह चोक्तनीया सम्बन्धनसंयोग एव साक्षादुपयोगी, इतरेषां तु तदुपकारितया तेपामपि कथञ्चित्त्याज्यतया च शिष्यमतिव्युत्पा-IN दिनाय चोपन्यास इति भावनीयम् । उक्तः संयोगः, तदभिधानाच व्याख्यातं प्रथमसूत्रम्॥शासम्प्रति यदुक्तं 'विनयं ४ प्रादुष्करिष्यामी ति, तत्र विनयो धर्मः, स च धर्मिणः कथश्चिदभिन्न इति धर्मिद्वारेण तत्स्वरूपमाह आणानिदेसयरे, गुरुणमुववायकारए । इंगियागारसंपन्ने, से विणीएत्ति वुच्चइ ॥२॥ (सूत्रम्) * व्याख्या-आङिति खखभावावस्थानात्मिकया मर्यादयाभिव्याप्त्या वा ज्ञायन्तेऽर्था अनयेत्याज्ञा-भगवदभि-11 लिहितागमरूपा तस्या निर्देश-उत्सर्गापवादाभ्यां प्रतिपादनमाज्ञानिर्देशः, इदमित्थं विधेयमिदमित्थं वेस्पेवमा स्मकः तत्करणशीलस्तदनुलोमानुष्ठानो वा आज्ञानिर्देशकरः, यद्वाऽऽज्ञा-सौम्य ! इदं कुरु इदं च मा कारिति गुरुवचनमेव, तस्या निर्देश-ददमित्थमेव करोमि इति निश्चयाभिधानं तत्करः, आज्ञानिर्देशेन वा तरति भवाम्भोदाधिमित्याज्ञानिर्देशतर इत्यादयोऽनन्तगमपर्यायत्वाद्भगवद्वचनस्य व्याख्याभेदाः सम्भवन्तोऽपि मन्दमतीनां व्यामो हेतुतया बालाबलादिवोधोत्पादनार्थत्वाचास्य प्रयासस्य न प्रतिसूत्रं प्रदर्शयिष्यन्ते, तथा 'गुरूणां' गौरवार्हाणामा दीप अनुक्रम पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~98~
SR No.035035
Book TitleSavruttik Aagam Sootraani 1 Part 35 Uttaradhyayan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size104 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy