SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-]/गाथा ||१|| नियुक्ति: [५८] प्रत AASA सूत्रांक ||१|| शक्तिरस्ति नवा इत्यालोचनं १, पुरुषज्ञानं-किमयं प्रतिवादी पुरुषः साङ्ख्यः सौगतोऽन्यो वा ?, तथा प्रतिभादिमानितरो वेति परिभावनं २, क्षेत्रज्ञानं-किमिदं मायाबहुलमन्यथा वा ? तथा साधुभिरभावितं भावितं वा नगरादीति विमर्शनं ३, वस्तुज्ञानं-किमिदं राजाऽमात्यादि सभासदादि वा वस्तु दारुणमदारुणं भद्रकमभद्रकं वेति निरूपणं४,७॥ सङ्ग्रहपरिज्ञा तु बालदुर्बलग्लाननिर्वाहबहुजनयोग्यक्षेत्रग्रहणलक्षणैका १ निषद्यादिमालिन्यपरिहाराय फलकपीठोपादानाऽऽत्मिका द्वितीया २ यथासमयमेव स्वाध्यायोपधिसमुत्पादनप्रत्युपेक्षणभिक्षादिकरणात्मिका तृतीया ३ प्रत्राजकाध्यापकरत्नाधिकादिगुरूणामुपधिवहनविश्रामणसंपूजनाभ्युत्थानदण्डकोपादानादिरूपा चतुर्थीति ४,८। इत्युक्ता अष्टौ चतुर्गुणा आचारादिगणिसम्पदः, विनयस्तूत्तरत्राचार्यविनयप्रस्तावेऽभिधास्यते, इति गतं प्रासङ्गिकं, प्रकतमुच्यते-तत्राऽऽचार्यस्य खरूपमभिहितं, शिष्यस्याह-आचार्यस्य, अपिभिन्नक्रमः, ततः शिष्योऽपि, न केवलमाचार्यस्तारशो यादशो नवरं स एवेति वचनादाचार्य इत्यपिशब्दार्थः, 'सदृशः तुल्यः, सर्वैरपि न कतिपयरेव, कैः'गुणैः' साधारणैः शान्त्यादिभिरिति गम्यते, यद्वा लक्षणे तृतीया, ततः सर्वैरपि खगुणैर्लक्षितः शिष्य आचार्यस्य सदृश इति योज्यं, सारश्यं च खगुणमाहात्म्यविभूतित उभयोरपि यथोक्तान्वर्धयुक्त(त्व)मेय, अथवाऽऽचार्यस्यापीति अपरेवकारार्थत्वात् खगुणोपलक्षितः शिष्यः सदृश एव-अनुरूप एव, अनुरूपार्थस्यापि सदृशशब्दस्य दर्शनात् , यथा|ऽऽत्मसदृशं कुर्याः, कुलानुरूपमित्यर्थः, अननुरूपस्तु तत्त्वतोऽशिष्य एवेति भावः, अथ के अमी शिष्यगुणाः,१] दीप अनुक्रम JAMERatinintamational पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~90~
SR No.035035
Book TitleSavruttik Aagam Sootraani 1 Part 35 Uttaradhyayan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size104 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy