________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं [-]/ गाथा ||१|| नियुक्ति: [१८]
पत्तराध्य बृहद्वृत्तिः
प्रत सूत्रांक ||१||
पूर्णेन्द्रियता-अनुपहतचक्षुरादिकरणता ३ स्थिरसंहननता-तपःप्रभृतिषु शक्तियुक्तता ४, ३। वचनसम्पचतुर्भे- अध्ययनम् दा-आदेयवचनता १ मधुरवचनता २ अनिश्रितवचनता ३ असन्दिग्धवचनता ४, तत्राऽऽदयवचनता-सकलज-४ नग्रायवाक्यता १, मधुरं रसवद् यदर्थतो विशिष्टार्थवत्तयार्थावगाढत्वेन शब्दतश्वापरुषत्वसौखर्यगाम्भीर्यादिगुणोतत्वेन श्रोतुराहादमुपजनयति तदेवंविधं वचनं यस्य स तथा तद्भावो मधुरवचनता २ अनिश्रितवचनता-रागा-12 चकलुषितवचनता ३ असन्दिग्धवचनता-परिस्फुटवचनता ४, वाचनासम्पञ्चतुर्धा-विदित्वोद्देशनं १ विदित्वा समुद्देशनं २ परिनिर्वाप्य वाचना ३ अर्थनिर्यापणेति ४, तत्र विदित्वोद्देशने विदित्वा समुद्देशने ज्ञात्वा परिणामिकत्वादिगुणोपेतं शिष्यं यद् यस्य योग्यं तस्य तदेवोद्दिशति समुद्दिशति वा, अपरिणामिकादावपक्वघटनिहितजलोदाहरणतो, दोषसम्भवात् २, परीति-सर्वप्रकार निर्वापयतो निरो निर्दग्धादिषु भृशार्थस्यापि दर्शनात् भृशं गमयतः-पूर्वदत्तालापकादि सर्वात्मना खात्मनि परिणमयतः शिष्यस्य सूत्रगताशेषविशेषग्रहणकालं प्रतीक्ष्य शक्त्यनुरूपप्रदानेन प्रयोजकत्वमनुभूय परिनिर्वाप्य वाचना-सूत्रप्रदानं परिनिर्वाप्यवाचना ३, अर्थ:-सूत्राभिधेयं वस्तु तस्स निरिति भृशं यापना-निर्वाहणा पूर्वापरसाङ्गत्वेन स्वयं ज्ञानतोऽन्येषां च कथनतो निर्गमना निर्यापणा ४, ५। मति-2॥ सम्पत् अवग्रहहापायधारणारूपा चतु, अवग्रहादयश्च तत्र तत्र प्रपञ्चिता एवेति न विप्रियन्ते ६ । प्रयोगमति-18 सम्पञ्चतुर्धा-आत्मपुरुषक्षेत्रवस्तुविज्ञानात्मिका, तत्राऽऽत्मज्ञानं-बादादिव्यापारकाले किममुं प्रतिवादिनं जेतुं मम
दीप
अनुक्रम
Swanniorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~89~