________________
आगम
(४३)
प्रत
सूत्रांक
|||||
दीप
अनुक्रम [3]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा || १ || निर्युक्ति: [५४]
अध्ययनं [१],
|मानसामीप्ये वर्तमानवद् वे' ( पा०३-३-१३१ ) ति भविष्यत्सामीप्ये लट्, 'अहम्' इत्यात्मनिर्देशः, 'समासेन' | संक्षेपेणेति गाथार्थः ॥ ५४ ॥ तत्र तावदात्मसंयोगमाह
ओदइय ओवसमिए खइए य तहा खओवसमिए य । परिणामसन्निवाए अ छविहो अत्तसंजोगो ॥५५॥
व्याख्या -- 'औदयिके' औदयिकविषये, एवम् औपशमिके च क्षायिके तथा क्षायोपशमिके च परिणामसन्निपाते च, सर्वत्र संयोग इति प्रक्रमः, तत एष 'षड्विधः' पड्ड्रेदः, आत्मभिः - आत्मरूपैः संयोग इति सम्बन्धनसंयोगः आत्मसंयोगः, न चैषामेकैकेनात्मनः संयोगः सम्भवति, अपि तु द्वाभ्यां त्रिभिश्चतुर्भिः पञ्चभिर्वा तत्र द्वाभ्यां क्षायिकेण सम्यक्त्वेन ज्ञानेन वा पारिणामिकेन च जीवत्वेन, त्रिभिरौदयिकेन देवगत्यादिना क्षायोपशमिकेन मत्यादिना पारिणामिकेन च जीवत्वेन, चतुर्भिस्त्रिभिरे (वमे) व चतुर्थेनोपशमिकेन क्षायिकेण वा सम्यक्त्वेन, पञ्चभिर्वदा क्षायिकसम्यग्रडष्टिरेवोपशमश्रेणिमारोहति तदौदयिकेन मनुष्यत्येन क्षायिकेण सम्यक्त्वेन क्षायोपशमिकेन मत्यादिना औपशमिकेन चारित्रेण पारिणामिकेन जीवत्वेनेति, अत्र च त्रिकमङ्गक एकः चतुष्कभङ्गी च द्वावेते त्रयोऽपि गतिचतुष्टयभाविन इति गतिचतुष्टयेन भिद्यमाना द्वादश भवन्ति, उक्तं च- "ओदेश्य खओवसमो तइओ पुण पारिणामिओ भावो । एसो पढमवियप्पो १ औदयिकः क्षायोपशमिकः तृतीयः पुनः पारिणामिको भावः । एष प्रथमविकल्पो देवानां भवति ज्ञातव्यः ॥ १ ॥
Jus Education intimatio
For Fasten
ww
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~82~