________________
आगम
(४३)
प्रत
सूत्रांक
||||
दीप
अनुक्रम
[3]
उत्तराध्य.
वृहद्वृत्तिः
॥ ३५ ॥
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा || १ || निर्युक्ति: [५३]
अध्ययनं [१],
जो सन्निवाइओ खलु भावो उदएण मीसिओ होइ । पन्नारससंजोगो सवो सो मीसिओ जोगो ॥५३॥ ॥ व्याख्या—यः सान्निपातिकः खलु भावः 'उदयेन' औदयिकभावेन 'मिश्रितः' संयुतो भवति, कियत्सङ्ख्य इत्याह-पञ्चदश संयोगा अस्मिन्निति पञ्चदशसंयोगः सर्वः सः किमित्याह-आत्मकर्मणोर्मिश्रत्वात्तदर्पितभावा अप्यौदयिकसहितौपशमिकादयो मिश्राः, ततस्तद्विषयत्वात्संयोगोऽपि मिश्रः, स एव मिश्रको योगः प्रक्रमात् सम्बन्धनसंयोगो ज्ञेय इति शेषः, ते च पञ्चदश संयोगा औदयिकममुञ्चता औपशमिकादिपञ्चकस्य द्विकत्रिकचतुष्कपञ्चकसंयोगतः कार्याः, तत्र चत्वारो द्विकसंयोगाः पद त्रिकसंयोगाश्चत्वारश्चतुष्कसंयोगा एकः पञ्चकसंयोग एते च मीलिताः पञ्चदश, भावना तु वक्ष्यमाणेति गाथार्थः ॥ ५३ ॥ पुनरात्मसंयोगादीनेव प्रकारान्तरेणाभिधित्सुः प्रस्तावनामाहबीओऽवि य आएसो अत्ताणे बाहिरे तदुभए य । संजोगो खलु भणिओ तं कित्तेऽहं समासेणं ॥ ५४॥
व्याख्या - द्वितीयोऽपि च न केवलमेक एव इत्यपि शब्दार्थः, चः पूरणे, 'आदेशः प्रकारः, प्रस्तावात् प्ररूपणीयः कीदृश इत्याह-आत्मनि नाह्मे तदुभयस्मिंश्च, संयोग इति सम्बन्धनसंयोगः, 'खलु' निश्चितं 'भणित' उक्तो, गणधरादिभिरिति गम्यते, अनेन च गुरुपारतन्त्र्यमाविष्करोति, 'तम्' इति द्वितीयमादेशं 'कीर्तये' संशब्दये' 'वर्त
१ चान्द्रमतेन णिज उभयपदभावात् आत्मनेपदम् ।
For Fast Use Only
अध्ययनम्
१
~81~
॥ ३५ ॥
www.janbay.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः