SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||||| दीप अनुक्रम [3] Education [भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) निर्युक्ति: [३०] अध्ययनं [१], मूलं [-] / गाथा ||१|| भावो, घटे दृष्टं चतुष्टयम् ॥ १ ॥ तत्रापि नाम नाकारमाकारो नाम नो विना । तौ बिना नापि चान्योऽन्यमुत्तरावपि संस्थितौ ॥ २ ॥ मयूराण्डरसे यद्वद्वर्णा नीलादयः स्थिताः । सर्वेऽप्यन्योऽन्यमुन्मि श्रास्तद्वन्नामादयो घटे ॥ ३ ॥ इत्थं चैतत् परस्परसव्यपेक्षितयैवाशेषनयानां सम्यन्नयत्वात् इतरथा 'उत्पादव्ययभौग्ययुक्तं सदिति प्रत्यक्षादिप्रमाणप्रतीतसलक्षणानुपपत्तेश्च । किञ्च शब्दादपि घटादेर्नामादिभेदरूपेणैव घटाद्यर्थे बुद्धिपरिणामो जायते, इत्यतोऽपि नामादिचतूरूपतैव सर्वस्य वस्तुनः उक्तं च--"नोमादिभेदसद्दत्यबुद्धिपरिणामभावओ णिययं । जं वत्थु अस्थि लोए चउपज्जायं तयं सर्व्वं ॥ १ ॥" ततश्च चतुष्काभ्यधिकस्सेह, न्यासो योऽन्यस्य दर्श्यते । एतदन्तर्गतः सोऽपि, ज्ञातव्यो धीधनान्वितैः ॥ १ ॥ इत्यलं प्रसङ्गेन । सम्प्रति निर्युक्तिरनुश्रि (स्त्रि) यते तत्र नामस्थापने आगमतो नोआगमतश्च ज्ञशरीरभव्यशरीररूपश्च द्रव्यसंयोगः सुगम इति मन्वानो व्यतिरिक्तद्रव्यसंयोगमभिधातुमाह-- 'द्विविधस्त्विति द्विविध एव, द्रव्येण द्रव्यस्य वा, 'स'मिति सङ्गतो योगः संयोगः, संयोग द्वैविध्यमेवाह — संयुक्तमेव संयुक्तकम्-अन्येन संश्लिष्टं, तस्य संयोगो - वस्त्वन्तरसम्बन्धः संयुक्तकसंयोगो ज्ञातव्यः, 'इतरेतर' इति इतरेतरसंयोगः, चः समुचये 'एषः' अवधारणे, इत्थमेव द्विविध एष संयोग इति गाथासमासार्थः ॥ ३० ॥ विस्तरार्थं त्वभिधित्सुः 'यथोद्देशं निर्देश' इति न्यायतः संयुक्तकसंयोगं भेदेनाह १ नामादिभेदशब्दार्थबुद्धिपरिणामभावतो नियतम् । यद्वस्त्वस्ति लोके चतुष्पर्यायं तत् सर्वम् ॥ २ ॥ For Fans Only पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः ~56~
SR No.035035
Book TitleSavruttik Aagam Sootraani 1 Part 35 Uttaradhyayan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size104 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy