SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||२१|| दीप अनुक्रम [१४९] [भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्ति:+वृत्तिः) मूलं [--] / गाथा ||२१|| अध्ययनं [५], निर्युक्ति: [२३५...] | विरत्यात्मकेनोत्तराः - प्रधानाः संयमोत्तराः, कुप्रवचनभिक्षवो हि जीवाद्यास्तिक्यादपि वहिष्कृताः सर्वथाऽचारित्रिणश्चेति कथं न सम्यग्दृशो देशचारित्रिणो गृहिणस्तेभ्यः संयमोत्तराः सन्तु १, एवं सत्यगारस्थेष्वेव तदस्त्वित्यत आह- 'अगारस्थेभ्यश्च सर्वेभ्य' इति अनुमतिवर्जसर्वोत्तमदेश विरतिप्राप्तेभ्योऽपि साधवः संयमोत्तराः, परिपूर्णसंयमत्वात्तेषां तथा च वृद्धसम्प्रदायः- एगो सावगो साहुं पुच्छति - सावगाणं साहूणं किमंतरं १, सादुणा भण्णतिसरिसवमंदरंतरं ततो सो आउलीहूओ पुणो पुच्छति - कुलिंगीणं सावगाण य किमंतरं १, तेण भण्णति-तदेव सरिसमंदरंतरंति, ततो समासासितो, जतो भणियं-"देसेकदेसविरया समणाणं सावगा सुविहियाणं । जेसिं परपासंडा सतिमंषि कलं न अग्यंति ॥ १ ॥” तदनेन तेषां चारित्राभावदर्शनेन पण्डितमरणाभाव एवं समर्थित इति सूत्रार्थः ॥ २० ॥ ननु कुप्रवचनभिक्षवोऽपि विचित्रलिङ्गधारिण एवेति कथं तेभ्योऽगारस्थाः संयमोत्तराः, अत आह— चीराजिणं निभिणिणं, जडी संघाडि मुंडिणं । एयाईपि न तायंति, दुस्सीले परियागतं ॥ २१ ॥ व्याख्या - चीराणि च - चीवराणि अजिनं च मृगादिचर्म चीराजिनं 'णिगिणिणं'ति सूत्रत्वान्नाश्यं 'जडित्ति १ एकः श्रवकः साधुं पृच्छति-श्रावकाणां साधूनां (च) किमन्तरम् ?, साधुना भण्यते - सर्षपमन्दरान्तरम्, ततः स व्याकुलीभूतः पुनः पृच्छति कुलिङ्गिनां श्रावकाणां च किमन्तरम् ?, तेन भण्यते तदेव सर्पपमन्दरान्तरमिति, ततः समाश्वस्तः, यतो भणितम्देशैकदेशविरताः श्रमणानां श्रावकाः सुविहितानाम् । येषां परपाषण्डाः शतीमपि कलां नार्घन्ति १ ।। For Pan the on पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः ~506~
SR No.035035
Book TitleSavruttik Aagam Sootraani 1 Part 35 Uttaradhyayan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size104 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy