SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-] / गाथा ||१९|| नियुक्ति: [२३५...] उत्तराध्य. अकाम बृहद्वृत्तिः मरणाच्या प्रत सूत्रांक ॥२४९॥ ||१९|| गृहस्थानां दूरापास्तमेव, अत एवाह-नेदं पण्डितमरणं 'सबेसु गारिसुति सर्वेषामगारिणा गृहिणां, चारित्रिणा- मेव तत्सम्भवात् , तथात्वे च तेषामपि तत्त्वतो यतित्वाद्, उभयत्र विषयसप्तम्यन्ततया वा नेयं, यथा चैतदेवं तथोपपत्तित आह-नाना-अनेकविधं शीलं-प्रतं स्वभावो का येषां ते नानाशीलाः 'अमारस्था' गृहस्थाः, तेषां हि नकरूपमेव शीलं किन्त्वनेकभङ्गसम्भवादनेकविधं, देशविरतिरूपस्य तस्यानेकधाऽभिधानात् , सर्वविरतिरूपस्य च तेष्वसम्भवात् , 'विषमम्' अतिदुर्लक्षतयाऽतिगहनं विसदृशं वा शीलमेषां विषमशीलाः, के ते-भिक्षवः, न हि सर्वेऽप्यनिदानिनोऽविकलचारित्रिणो या तत्कालं नियन्ते जिनमतप्रतिपन्ना अपि, तीर्थान्तरीयास्तु दूरोत्सारिता । एव, तेषु हि गृहिणस्तावदत्यन्तं नानाशीला एव, यतः-केचिद्गृहाश्रमप्रतिपालनमेव महातमिति प्रतिपन्नाः, अन्ये तु सप्त शिक्षापदशतानि गृहिणां ब्रतमित्याद्यनेकधैय ब्रुवते, भिक्षयोऽप्यत्यन्तं विषमशीला एव, यतस्तेषु केषा|श्चित्पञ्चयमनियमात्मकं प्रतमिति दर्शनम् , अपरेषां तु कन्दमूलफलाशितैय इति, अन्येषामात्मतत्त्वपरिज्ञानमेवेति विसदृशशीलता, न च तेषु कचिदपिकलचारित्रसम्भव इति सर्वत्र पण्डितमरणाभाव इति सूत्रार्थः ॥ १९॥ विषमशीलतामेव भिक्षणां समर्थयितुमाह संति एगेहि भिक्खूहि, गारस्था संजमुसरा । गारत्थेहि य सब्वेहि, साहवो संजमुत्तरा ॥२०॥ व्याख्या-'सन्ति' विद्यन्ते 'एकेभ्यः' कुप्रवचनेभ्यो भिक्षुभ्यः 'गारत्थ'त्ति सूत्रत्वादगारस्थाः संयमेन-देश दीप अनुक्रम [१४७] ॥२४॥ Jmtashma पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~505
SR No.035035
Book TitleSavruttik Aagam Sootraani 1 Part 35 Uttaradhyayan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size104 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy