________________
आगम (४३)
प्रत
सूत्रांक
||१२||
दीप
अनुक्रम [१४० ]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्ति:+वृत्तिः) अध्ययनं [५], मूलं [--] / गाथा ||१२|| निर्युक्तिः [२३५]
लिङ्गव्यत्ययेनोत्पत्तिस्थानानि घटिकालयादीनि येष्वतिसंपीडिताङ्गा दुःखमाकृष्यमाणाः वहिर्निष्क्रामन्ति जन्तवः, यद्वा नरके - रत्नप्रभा दिनरक पृथिव्यात्मके स्थानानि - सीमन्तकाप्रतिष्ठानादीनि कुम्भीवैतरण्यादीनि वा, अथवा स्थानानि - सागरोपमादिस्थित्यात्मकानि तत्किमियताऽपि परितप्यत इत्यत आह- 'अशीलानाम्' अविद्यमानसदाचाराणां या गतिर्नरकात्मिका सा च श्रुतेति सम्बन्धः कीदृशानाम् १- 'बालानाम्' अज्ञानां क्रूरकर्म्मणां' हिंस्रमृषाभाषकादीनां, कीदृशी गतिरित्याह-प्रगाढा नामात्युत्कटतया निरन्तरतया च प्रकर्षवत्यो 'यत्र' यस्यां गतौ वेद्यन्त इति वेदना:शीतोष्णशाल्मल्या श्लेषणादयः, तदयमस्याशयः - ममैवंविधानुष्ठानस्येदृश्येव गतिरिति सूत्रार्थः ॥ १२ ॥ तथा
तत्थोववाइयं ठाणं, जहा मे तमणुस्सुधं । आहाकम्मेहिं गच्छन्तो, सो पच्छा परितप्पति ॥ १३ ॥ व्याख्या- 'तत्रे 'ति नरकेषु उपपाते भवमोपपातिकं 'स्थानं' स्थितिः 'यथा' येन प्रकारेण, भवतीति शेषः, 'मे' | मया तदित्यनन्तरोकपरामर्शे 'अनुश्रुतम्' अवधारितं, गुरुभिरुच्यमानमिति शेषः, औपपातिकमिति च ब्रुवतोऽस्वायमाशयः - यदि गर्भजत्वं भवेत् भवेदपि तदवस्थायां छेदभेदादिनारकदुःखान्तरम्, औपपातिकत्वे त्वन्तर्मुहूर्तानन्तरमेव तथाविधवेदनोदय इति कुतस्तदन्तरसम्भवः १, तथा च- 'आहाकम्मेहिं ति आधानमाधाकरणम्, आत्मनेति गम्यते, तदुपलक्षितानि कर्माण्याधाकर्माणि तैः आधाकर्मभिः स्वकृतकर्मभिः, यद्वाऽऽर्षत्वात्, 'आहेति' आधाय कृत्वा, कर्माणीति गम्यते, ततस्तैरेव कर्म्मभिः 'गच्छन्' यान् प्रक्रमान्नरकं, यद्वा- 'यथाक
Jam Euston mational
For Panther
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~500~