________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [५], मूलं [-] / गाथा ||१०|| नियुक्ति: [२३५...]
23
प्रत
सूत्रांक ||१०||
| व्याख्या-कायस'ति सूत्रत्वात् कायेन-शरीरेण वचसा-वाचा उपलक्षणत्वात् मनसा च 'मत्तों' दृप्तः, तत्र कायमत्तो मदान्धगजवत् यतस्ततः प्रवृत्तिमान् , यद्वाऽहोऽहं बलवान् रूपवान् वेति चिन्तयन् वचसा खगुणान् ख्यापयन् अहोऽहं सुखर इत्यादि वा चिन्तयन् , मनसा च मदामातमानसः अहोऽहमवधारणाशक्तिमानिति वा मन्यानो 'वित्ते'द्रविणे 'गृद्धों' गृद्धिमान, चशब्दो भिन्नक्रमः, ततः स्त्रीषु च गृद्धः, तत्र वित्ते गृद्ध इति अदत्तादानपरिग्रहोपलक्षणं, तद्भावभावित्वात्तयोः, स्त्रीषु गृद्ध इत्यनेन मैथुनासेवित्वमुक्तं, स हि स्त्रियः संसारसर्वखभूता इति मन्यते, तथा च तद्वचः-'सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलोचनाः॥१॥ तदभिरतिमांश्च मैथुनासेव्येव भवति, स एवंविधः किमित्याह-'दुहतो'त्ति द्विधा-द्वाभ्यां रागद्वेषात्मकाभ्यां बहि|रन्तःप्रवृत्त्यात्मकाभ्यां वा प्रकाराभ्यां, सूत्रत्वाद्विविधं वा इहलोकपरलोकवेदनीयतया पुण्यपापात्मकतया बा, |'मलम्' अष्टप्रकारं कर्म 'संचिनोति' बनाति, क इव किमित्याह-'शिशुनागो गण्डूपदोऽलस उच्यते, स इव मृत्तिका, स हि स्निग्धतनुतया वही रेणुभिरवगुण्ड्यते, तामेव चाश्नीते इति बहिरन्तश्च द्विधापि मलमुपचिनोति, तथाऽयमपि, एतदृष्टान्ताभिधाने त्वयमभिप्रायो-यथाऽसौ बहिरन्तश्चोपचितमलः खरतरदिवाकरकरनिकरसंस्पर्शतः शुष्यन्निहैव क्लिश्यति विनाशं चाप्नोति, तथाऽयमप्युपचितमलः आशुकारिकर्मवशत इहैव जन्मनि क्लिश्यति विनश्यति चेति सूत्रार्थः ॥११॥ अमुमेवार्थ व्यक्तीकर्तुमाह
रे
दीप अनुक्रम [१३८]
JimEastmaitri
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: अत्र सूत्रान्ते यत् ||१९|| लिखितं तत् मुद्रणदोषः, अत्र सूत्र ||१०|| एव वर्तते
~498~