SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३५] “उत्तराध्ययनानि”-मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५], मूलं [-] / गाथा ||६|| नियुक्ति: [२३५...] प्रत सूत्रांक ||६|| Iकन्तत्वं च तेषां शल्यविषादिभिरुदाहरणैः प्रतीतमेव, तथा च वक्ष्यति-"सलं कामा विसं कामा, कामा आसीपिसो-1 वमा। कामे पत्थेमाणा, अकामा जंति दुग्गतिं ॥१॥" न हि विषादीनि मुखमधुराण्यप्यायतिविरसतया विवेकिभिन । हीयन्ते, यदपि परलोकसन्देहाभिधानं तदपि न पापपरिहारोपदेशं प्रति बाधक, पापानुष्ठानस्येहैव चौरपारदारिकादिषु महानर्थहेतुतया दर्शनात् , परलोकनास्तित्वानिश्चये च तत्रापि तथानर्थहेतुतया सम्भाव्यमानत्वाल्मीककरप्रवेशनादिवत् प्रेक्षावद्भिः परिहर्तुमुचितत्वात् , न च परलोकास्तित्वं प्रति सन्देहः, तनिश्चायकानुमानस्य तदहर्जातबालकस्तनाभिलाषादिलिङ्गबलोत्पन्नस्य तथाविधाध्यक्षवदव्यभिचारित्वेन तत्र तत्र समर्थितत्वादित्यलं प्रसझेनेति सूत्रार्थः॥६॥ अन्यस्तु कथञ्चिदुत्पादितप्रत्ययोऽपि कामान् परिहर्तुमशक्वन्निदमाह जणेण सहिं होक्खामि, इति वाले पगम्भइ । कामभोगाणुरागणं, केसं संपडिवजा ॥ ७॥ व्याख्या-जायत इति जनो-लोकस्तेन 'सार्द्ध' सह भविष्यामि, किमुक्तं भवति ?-बहुजनो भोगासझी तदहमपि तद्गतिं गमिष्यामि, यद्वा 'होक्खामित्ति भोक्ष्यामि-पालयिष्यामि, यथा शयं जनः कलत्रादिकं पालयति तथाऽहमपि, न हीयान् जनोज्ञ इति 'बालः' अज्ञः 'प्रगल्भते' धार्यमवलम्बते, अलीकवाचालतया च खयंनष्टः परानपि नाशयति, न विवेचयति यथा-किमुन्मार्गप्रस्थितेनाविवेकिजनेन बहुनाऽपि ? मम विवेकिनः प्रमाणीकृतेन 1, स्वकृत१शल्यं फामा विषं कामाः, कामा आशीविषोपमाः । कामान् प्रार्थयन्तोऽकामा यान्ति दुर्गतिम् ॥ १॥२ प्रमाणीकरणेनेति, दीप अनुक्रम [१३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~494~
SR No.035035
Book TitleSavruttik Aagam Sootraani 1 Part 35 Uttaradhyayan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size104 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy