SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५], मूलं [--1 / गाथा ||५|| नियुक्ति: [२३५...] -25-4-58-45-45%* प्रत सूत्रांक ||५|| जे गिद्धे कामभोगेसु, एगे कूडाय गच्छद । न मे दिहे परे लोए, चक्खुदिट्ठा इमा रती ॥५॥ व्याख्या-'य'इत्य निर्दिष्टखरूपो गृद्धः, काम्यन्त इति कामाः भुज्यन्त इति भोगाः ततश्च कामाश्च ते भोगाश्च कामभोगाः तेषु-अभिलपणीयशब्दादिपु, यद्वा कामौ च शब्दरूपाख्यौ भोगाश्च स्पर्शरसगन्धाख्याः कामभोगाः तेषु, उक्तं हि-"कामा दुविहा पण्णत्ता-सहा रूवा य, भोगा तिविहा पण्णता, तंजहा-गंधा रसा फासा य"त्ति, 'एकः' कश्चित् क्रूरकर्मा तन्मध्यात् कूटमिव कूट-प्रभूतप्राणिनां यातनाहेतुत्वान्नरक इत्यर्थः, यथैव हि कूटनिपतितो मृगो व्याधैरनेकधा हन्यते, एवं नरकपतितोऽपि जन्तुः परमाधार्मिकरिति, तस्मै कूटाय, गत्यर्थकर्मणि द्वितीयाचतुर्था (पा०२-३-१२) वित्यादिना चतुर्थी, 'गच्छति' याति, यद्वा यो गृद्धः 'कामभोगेष्विति कामेषुस्त्रीसङ्गेषु भोगेषु-धूपनविलेपनादिषु स 'एकः' सुहृदादिसाहाय्यरहितः कूटाय गच्छति, अथवा कूटं द्रव्यतो भावतश्च, तत्र द्रव्यतो मृगादिवन्धनं, भावतस्तु मिथ्याभाषणादि, तस्मै गच्छतीत्यनेकार्थत्वात् प्रवर्तते, स हि मांसादिलोलुपतया मृगादिवन्धनान्यारभते, मिध्याभाषणादीनि चासेवत इति, प्रेरितश्च कैश्चिद्वदति-'न में' इति न मया 'दृष्टः' अवलोकितः, कोऽसौ ?-'परलोको' भूतभाविजन्मात्मकः, कदाचिद्विषयाभिरतिरप्येवंविधैव स्यादत आहचक्षुषा-लोचनेन दृष्टा-प्रतीता चक्षुदृष्टा 'इय'मिति तामेव प्रत्यक्षां निर्दिशति, रम्यतेऽस्यामिति रतिः-स्पर्शनादि १ कामा द्विविधाः प्रज्ञप्ताः-शब्दा रूपाणि च, भोगास्त्रिविधाः प्रज्ञप्ताः, तद्यथा-न्धा रसाः स्पर्शाश्त्र । -03 दीप अनुक्रम [१३३] 26- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~492
SR No.035035
Book TitleSavruttik Aagam Sootraani 1 Part 35 Uttaradhyayan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size104 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy